SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ५-तत्त्वतत्त्वम् गा-२३९ ३२७ चक्रे० : अथ कालस्वरूपमाहुः - देव० : अथ कालस्वरूपमाह - समयावलियमहत्ता दिवसा पक्खा य मास वरिसा य। भणिओ पलियासागर ओसप्पिणिसप्पिणी कालो।।२३९।। चक्रे० : समयाः सर्वसूक्ष्माः कालविशेषाः, श्रुतोक्तपट्टशाटिकादृष्टान्ताज्ज्ञेयाः । आवलिका असङ्ख्येयसमयसमूहरूपाः। मुहूर्त्तदिवसपक्षमासवर्षाणि प्रतीतानि । 'पलिय'त्ति पल्योपमानि, तत्प्रमाणं चेदम् - योजनं व्युच्छ्रितः पल्यस्तथा योजनविस्तृतः । सप्तरात्रप्ररूढानां केशाग्राणां स पूरितः ।। ततो वर्षशते पूर्ण एकैकं केशमुद्धरेत् । क्षीयते येन कालेन तत्पल्योपममुच्यते।। [ ] पल्योपमदशकोटीकोट्यात्मकानि सागरोपमाणि । अवसर्पिण्युत्सर्पिण्यश्च पूर्वोक्तमानाः । कालो भणित इति सम्बन्धः ।।२३९ ।। देव० : समयाः परमनिकृष्टाः कालविशेषास्ते च प्रवचनप्रतिपादितपट्टशाटिकापाटनदृष्टान्तादवसेयाः । आवलिका असङ्ख्येयसमयसमुदयलक्षणाः, मुहूर्ता द्विघटिकाप्रमाणाः, दिवसाश्चतुष्प्रहरात्मकाः, पक्षाः पञ्चदशाहोरात्रमानाश्चः समुच्चये, मासास्तद्विगुणा वर्षाणि द्वादशमासानि, 'पलिय'त्ति उत्तरपदलोपात् पल्योपमानि, एवं सागरोपमाण्यपि तत्र पल्योपमप्रमाणम् - योजनविस्तृतः पल्यस्तथा योजनमुच्छ्रितः । सप्तरात्रप्ररूढानां केशाग्राणां स पूरितः ।। ततो वर्षशते पूर्ण एकैकं केशमुद्धरेत् । क्षीयते येन कालेन तत्पल्योपममुच्यते ।। [ ] १. दियहा A.T.C२. योजनविस्तृतः T,B,C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy