SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३१२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् ___ * आवश्यकनियुक्तौ 'प्रतिक्रमण' अध्ययने संग्रहणिगाथायाम्-१, २ * अधुनाऽमुमेव गुणस्थानद्वारेण दर्शयन्नाह संग्रहणिकार: - मिच्छद्दिट्ठी सासायणे य तह सम्ममिच्छदिट्ठी य। अविरयसम्मद्दिकी विरयाविरए पमत्ते य ।। तत्तो य अप्पमत्तो नियट्टिअनियट्टिबायरे सुहुमे । उवसंतखीणमोहे होइ सजोगी अजोगी य ।। कश्चिद्भूतग्रामो मिथ्यादृष्टिः, तथा सास्वादनश्चान्यः, सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनः, क्वणद्घण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः, तदुत्तरकालं षडावलिकाः, तथा चोक्तम् उवसमसंमत्तातो चयतो मिच्छं अपावमाणस्स। सासायणसंमत्तं तदंतरालंमि छावलियं ।। तथा सम्यग्मिथ्यादृष्टिश्च सम्यक्त्वं प्रतिपद्यमानः प्रायः सञ्जाततत्त्वरुचिरित्यर्थः, तथाऽविरतसम्यग्दृष्टिदेशविरतिरहितः सम्यग्दृष्टिः, विरताविरतः श्रावकग्रामः, प्रमत्तश्च प्रकरणात्प्रमत्तसंयतग्रामो गृह्यते, ततश्चाप्रमत्तसंयतग्राम एव, 'णियट्टिअणियट्टिबायरो'त्ति निवृत्तिबादरोऽनिवृत्तिबादरश्च, तत्र क्षपकश्रेण्यन्तर्गतो जीवग्रामः क्षीणदर्शनसप्तको निवृत्तिबादरो भण्यते, तत ऊर्ध्वं लोभाणुवेदनं यावदनिवृत्तिबादरः, 'सुहुमे 'त्ति लोभाणून् वेदयन् सूक्ष्मो भण्यते, सूक्ष्मसम्पराय इत्यर्थः, उपशान्तक्षीणमोहः श्रेणिपरिसमाप्तावन्तर्मुहूर्तं यावदुपशान्तवीतरागः क्षीणवीतरागश्च भवति, सयोग्यनिरुद्धयोगो भवस्थकेवलिग्राम इत्यर्थः, अयोगी च निरुद्धयोगः शैलेश्यां गतो ह्रस्वपञ्चाक्षरोद्रिणमात्रकालं यावदिति गाथाद्वयसमासार्थः ।। १, २।। चक्रे० : उक्तानि जीवस्थानयोगोपयोगगुणस्थानानि । अथैतानि गत्यादिद्वारेषु विचार्यन्त इति तान्याहुः - देव० : एवमियता ग्रन्थेन जीवस्थानानि तद्गतयोगोपयोगगुणस्थानानि च प्रतिपादितान्येतानि च गत्यादिद्वारेषु विचार्यन्त इति तान्याह - गइइंदिए य काए जोए वेए कसायनाणे य । संयम-दंसण-लेसा भवसम्मे सनिआहारे।।२३५ ।। चक्रे० : गतौ नारकादिकायाम् ४, 'इंदिए य' त्ति एकेन्द्रियादौ ५, काये पृथ्वीकायादौ ६, योगे मनआदौ ३, वेदे स्त्र्यादौ ३, कषाये क्रोधादौ ४, ज्ञाने मत्यादौ ५, उपलक्षण१. काये T,B,CK
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy