SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ५-तत्त्वतत्त्वम् गा-२३३, २३४ ९-अनिवृत्तयोऽव्यावृत्ता बादरा यस्मिन्नसावनिवृत्तिबादरः, प्रतिसमयमनन्तगुणविशुद्धकैकाध्यवसायस्थानत्वादस्य युगपदेतत्प्रतिपन्नानां परस्परं नाध्यवसायवैलक्षमित्यर्थः, अयमप्युपशमकः क्षपकश्च ९। १०-सुहमे'त्ति सूक्ष्मसम्परायस्तत्र समन्तात् परायन्ति पर्यटन्ति जीवाः संसारमेभिरिति सम्परायाः कषाया इह तु शेषाणामनुदयालोभ एव ग्राह्यः, सूक्ष्मः किट्टीभूतसम्परायो यस्य स तथा, अयमप्युपशमकः क्षपकश्च । ११-मोहशब्दस्योभयत्र सम्बन्धादुपशान्तो विद्यमान एव करणविशेषाद्भस्मच्छन्नाग्निवदुदयायोग्यीभूतो मोहो यस्य स तथोपशमश्रेणेरुत्तीर्ण इत्यर्थः । १२-क्षीणोऽभावमापन्नो मोहो यस्य स तथा क्षपकश्रेणेः पारगतः केवलोत्पत्तेराग्वः भवति। १३-'सजोगि'त्ति सयोगिकेवली, तत्र सह योगैमनोवाक्कायव्यापरैर्वर्त्तत इति सयोगी, सर्वघनादेराकृतिगणत्वाद बहुव्रीहेर्मत्वर्थीयः । सयोगी चासौ केवली च, न च केवलिनो मनोयोगो नास्ति, मनःपर्यवज्ञान्यादिभिर्मनसा पृष्टस्य मनसैव देशकत्वात् । १४-योगनिरोधादयोगी, स चासौ केवली च। गुणिरूपतया चामीषामभिधानं गुणगुणिनोः कथञ्चिदनन्यत्वादिति । कालमानं चामीषाम् - मिच्छत्तमभव्वाणं अणाइयमणंतयं मुणेयव्वं । भव्वाणं तु अणाई सपज्जवसियं च सम्मत्ते ।। छावलीयं सासाणं समहिय तेत्तीससायर चउत्थं । देसूणपुव्वकोडी पंचमगं तेरसं च पुढो ।। लहु पंचक्खर चरिमं तइयं छट्ठाइ बारसं जाव । इय अट्ठगुणट्ठाणा अंतमुहुत्ता य पत्तेयं ।। [प्रव. सारो० १३०७, ८, ९] अयमन्यश्च विशेषः - मिच्छे सासाणे वा अविरयसम्ममि अहव गहियंमि । जंति जिया परलोए सेसिक्कारसगुणे मोत्तुं ।। [प्रव.सारो० १३०६] इति गाथार्थः ।।२३३, २३४ ।। १. 'सहमित्ति A,TB,C२. सर्वघनाघनादे A. ३. सासायणे T.B.C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy