SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १८६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् * स्तवपरिज्ञायाम् - ७५ * ऊत्तं न कयाइवि इमाणं संखं इमं तु अहिगि । जं धरा सुत्द्दट्ठा वंदणिज्जाओ ।। ऊनत्वं न कदाचिदप्येतेषां शीलाङ्गानां संख्यामेवाधिकृत्य - आश्रित्य यस्मादेतद्धराअष्टादशशीलाङ्गसहस्रधारिणः सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा वन्दनीया नान्ये 'अट्ठारससहस्ससीलंगधारा' इत्यादि वचनप्रामाण्यात् । इदं तु बोध्यम्-यत्किञ्चिदेकाद्युत्तरगुणहीनत्वेऽपि मूलगुणस्थैर्येण चारित्रवतां योग्यतया शीलाङ्गसङ्ख्या पूरणीया, प्रतिज्ञाकालीनसंयमस्थानान्यसंयमस्थानानां षट्स्थानपतितानां चोक्तवदेव तुल्यत्वोपपत्तेः 'संजमठाणठियाणं किइकम्मं बाहिराणं भइअव्वं' इत्याद्युक्तस्योपपत्तेश्चेत्यधिकमस्मत्कृतगुरुतत्वविनिश्चये । उत्सर्गविषयो वाऽयम् ।।७५।। चक्रे० : उक्तमेवार्थं किञ्चिद्विशिष्टमाहुः देव० : उक्तमेवार्थं किञ्चिद्विशिष्टमाह पंचविहायाररओ अट्ठारससहस्सगुणगणोवेओ । एस गुरू मह सुंदर भणिओ कम्मट्ठमहणेहिं । । १४१ । । चक्रे० : स्पष्टा, नवरं पञ्चविध आचारो ज्ञानदर्शनचारित्रतपोवीर्याचारभेदात् । ।१४१ ।। देव० : पञ्चविधः पञ्चप्रकार आचारो व्यवहारः, स च ज्ञानदर्शनचारित्रतपोवीर्यविषयस्तत्र रतः सक्तः स्वयमासेवनतोऽन्योपदेशतश्च प्रागभिहितशीलाङ्गलक्षणाष्टादशसहस्रगुणगणोपेतः, एवंविशिष्टे गुरौ जातहर्षः शिष्यं प्रत्याह ग्रन्थकारः, हे सुन्दर ! गुणानुरागप्रधान एष गुरुर्मम भणितः कर्माष्टमथनैर्जिनैः । इह विशेषणपरनिपातः प्राकृतत्वादिति गाथार्थः । । १४१ ।। चक्रे० : एवं साधुस्वरूपमाख्यायेदानीं षट्त्रिंशतिकाषट्केनाचार्यगुणानाख्यातुं गाथासमूहमाहुः देव० : तदियता सामान्येन साधुस्वरूपमुपवर्ण्य साम्प्रतं विचित्रषट्त्रिंशतिकाभिराचार्यगुणाभिधित्सया गाथाकदम्बकमाह - अट्ठविहा गणिसंपय चउग्गुणा नवरि हुंति बत्तीसं । विणओ य उभेओ छत्तीसगुणा इमे तस्स ।।१४२ ।। चक्रे० : गणो गच्छोऽस्याऽस्तीति गण्याचार्यस्तस्य सम्पत्समृद्धिरष्टविधा - १ - आचार
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy