SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा-१४० एकद्व्यादिसंयोगेन योगेषु सप्त विकल्पाः, एवं करणेषु संज्ञासु पञ्चदश, इन्द्रियेष्वेकत्रिंशत्, भूम्यादिषु त्रयोविंशत्यधिकं सहस्रम्, एवं क्षमादिष्वपि, इत्येषां च परस्पराभ्यासे द्वे कोटीसहस्रे, त्रीणि कोटीशतानि, चतुरशीतिकोटीनामेकपञ्चाशल्लक्षाणि, त्रिषष्टिसहस्राणि, द्वे शते, पञ्चषष्टिश्चेति, अङ्कतोऽपि २३८४५१६३२६५. ततः किमष्टादशैव सहस्राण्युक्तानि ? उच्यते यदि श्रावकधर्मवदन्यतरभङ्गकेन सर्वविरतिप्रतिपत्तिः स्यात्तदा युज्येत तद्भणनम्, न चैवमेकतरस्यापि, शीलाङ्गभङ्गकस्य शेषसद्भाव एव भावाद्, अन्यथा सर्वविरतिरेव न स्याद्, अभ्यधायि च - इत्थ इमं विन्नेयं अईयं पज्जं तु बुद्धिमंतेहिं । एक्कम्मि वि सुपरिसुद्धं सीलंगं सेससब्भावे ।। तथा – इक्को वायपएसोऽसंखेयपएसो संगओ जहउ । एयंपि तहा नेयं सतत्तचाओ इयरहा उ ।। [स्तवपरिज्ञा-६१, ६२] इति गाथार्थः ।।१३९ ।। चक्रे० : अत एव - देव० : अत एव च - ऊणत्तं न कयाइ वि इमाण संखं इमं तु अहिगिञ्च । जं एयधरा सुत्ते निद्दिट्ठा वंदणिज्जाओ।।१४०।। चक्रे० : ऊनत्वमेकादिभिहीनत्वं न कदाचिदपि दुःषमादावप्येषां शीलाङ्गानां सङ्ख्यामिमां त्वष्टादशशीलाङ्गसहस्रलक्षणामधिकृत्य, यद् यस्मादेतद्धरा अष्टादशशीलाङ्गसहस्रधारिण एव सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा वन्दनीयाः ‘अट्ठारससीलंगसहस्सधारा' इति वचनेन ।।१४० ।। देव० : ऊनत्वमेकादिभिर्हीनत्वं नैव कदाचिदपि दुःषमादावप्येतेषां शीलाङ्गानां सङ्ख्यां परिमाणमिमामेतामष्टादशसहस्रलक्षणाम्, तुरेवकारार्थो योजित एव, अधिकृत्याश्रित्य, कुत एतदित्याह – यद्यस्मादेतद्धरास्त्वष्टादशशीलाङ्गसहस्रधारिण एव सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा उक्ता वन्दनीया नमस्कारार्हाः, नान्ये 'अट्ठारससीलंगसहस्सधारा' इत्यादिवचनप्रामाण्यादयमपि, तुशब्द एवकारार्थः प्राग्योजितश्चेति गाथार्थः ।।१४० ।। १. वंदणिज्जाउ T.C२. प्रणम्याः T,B,C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy