SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् चक्रे० : व्याख्यातं मार्गतत्त्वमधुना मूलद्वारगाथाक्रमप्राप्तं साधुतत्त्वं विव्रियते, सम्बन्धश्च पूर्वेण सहास्य पूर्वं मार्गतत्त्वमुक्तम्, तञ्च साधुभिरावेद्यत इति साधुतत्त्वमुच्यते, तत्रादौ गाथा - देव० : व्याख्यातं मार्गतत्त्वमधुना मूलद्वारगाथाक्रमप्राप्तं साधुतत्त्वं विव्रियते, सम्बन्धश्च पूर्वेण सहास्य पूर्वं मार्गतत्त्वमभिहितम्, तच्च सुतीर्थमुखात् श्रोतव्यम्, सुतीर्थं च साधुरिति प्रस्तावात्साधुतत्त्वमत्राभिधीयते, तत्रादौ गाथा - अट्ठारस जे दोसा आयारकहाए वन्निया सुत्ते । ते वजंतो साहू पन्नत्तो वीयरागेहि।।११५ ।। चक्रे० : सुगमा, नवरं सूत्रे सिद्धान्ते, आचारकथायां साध्वाचारविचारणायां दशवैकालिकषष्ठाध्ययनरूपायां वा।।११५।। देव० : सुगमा, नवरं सूत्रे सिद्धान्ते सामान्येन विशेषतस्त्वाचारकथायां दशवकालिकषष्ठाध्ययने । तथा साधयति पौरुषेयीभिर्विशिष्टक्रियाभिरपवर्गमिति साधुर्यतिरिति।।११५ ।। चक्रे० : अथ क एतेऽष्टादश दोषा इत्याहुः - देव० : अथ क एतेऽष्टादश दोषा इत्याह - पढमं वयाण छक्कं कायछक्कं अकप्प गिहिभायणं । पलियंक निसिज्जा वि य सिणाणसोहाविवज्जणयं ।।११६ ।। चक्रे : प्रथमं पञ्च महाव्रतानि रात्रिभोजनविरतिश्चेति व्रतानां षट्कम्, इह च व्याख्यानतो विशेषप्रतिपत्तिः' इति व्रतानां विराधनानि दोषत्वेन ज्ञेयानि । एवं कायषट्केऽपि कायानां १. आयारकहाइ PK २. वज्जितो T,C,PK वज्जेतो A,Z ३. निसेज्जा A,Z ४. सिणाणं T,C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy