SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १४६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : अथ प्रस्तुतार्थसमर्थनायाऽभीष्टदेवतास्तुतिगर्भसम्बोधनेन मध्यमङ्गलमाविष्कुर्वन्तो मुग्धजनप्रवादतिरस्कारमाहुः - देव० : अथ प्रस्तुतार्थसमर्थनायाऽभीष्टदेवतास्तुतिगर्भसम्बोधनेन मध्यमङ्गलमाविष्कुर्वन् मुग्धजनप्रवादतिरस्कारमाह - सव्वत्थ अत्थि धम्मो जा मुणियं जिण ! न सासणं तुम्ह । कणगाउराण कणगं व ससियपयमलभमाणाणं।।११४ ।। चक्रे० : सुगमा, केवलं कनकातुराणां धत्तूरकातुराणाम्, 'ससियपय'त्ति ससितं सशर्कर पयः क्षीरम् ।।११४ ।। ॥ इति पूज्यश्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्यश्रीतिलकाचार्यनिर्वाहितायां सम्यक्त्ववृत्तौ समर्थितं तृतीयं मार्गतत्त्वम् ।। । देव० : सर्वत्र सर्वेषु कपिलशैवशाक्यादिविविधमतेषु, अस्ति विद्यते धर्म इति विवेकविकलानामभ्युपगमो वर्तते, यावत् किम् ? यावन्न मुणितं नाधिगतं हे जिन ! विगलिताशेषरागादिदोष ! जातौ चात्रैकवचनम्, शासनं द्वादशाङ्गं 'तुम्ह'त्ति युष्माकं व्यक्त्यपेक्षया बहुवचनमनेन जातिव्यक्त्योः कथञ्चिदभेदमाह, किमिव कुत्र केषामित्याह-कनकातुराणां हत्पूरकफलचूर्णभावितात्मनां कनकमिव सुवर्णमिव सर्वश्रेष्टकाकाष्ठपाषाणादिष्वस्तीत्यभ्युपगम इतीहापि दृश्यम्, किंविशिष्टानां तेषाम् ? सह सितया शर्करया वर्तत इति ससितम्, तच्च तत्पयश्च दुग्धं तदलभमानानामप्राप्नुवतामपिबतामिति तात्पर्यमिति गाथार्थः ।।११४ ।। ।। इति श्रीदेवभद्रसूरिविरचिते दर्शनशुद्धिप्रकरणविवरणे तृतीयं मार्गतत्त्वं समाप्तम् ।।श्रीरस्तु ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy