SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १२८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम देव० : पृच्छतां धर्मं गृहियतिभेदभिन्नम्, तमपि च कथ्यमानं धर्मं परीक्षितुं विवेक्तुमसमर्थानां मुग्धबुद्धित्वाद्, अनेन तेषामत्यन्तानुकम्पनीयतामाह, भव्यप्राणिनामिति गम्यते, आहारोऽशनादिरूपलक्षणं चैतद्वस्त्रपात्रपूजादीनाम्, तन्मात्रे सिद्धिसुखविमुखतया लुब्धा गृद्धा ये यथाछन्दादय उन्मार्गमुत्पथमशुद्धदानादिरूपमुपदिशन्ति कथयन्ति ‘मा ममैते विवेकिनः सन्त आधाकर्मादिदोषदूषितमाहारादि न दास्यन्ति' इत्यनेन च तेषामतिक्लिष्टतामाह, यदुच्यते जह सरणमुवगयाणं जीवाणं निकिंतइ सिरे जो उ । एवं आयरिओ वि हु उस्सुत्तं पन्नवंतो उ ।। [उपदेशमाला-४१७] यत्तदोर्नित्यसम्बन्धात्ते किमित्याह-सुगतिं स्वर्गापवर्गादिकां तेषां पृच्छकानां नन्ति बाधन्त उन्मार्गस्थापितानां तेषां सुगतिहानेस्तन्मूलत्वात्तथा ते धार्मिकजनस्य कलिकालेऽपि यथाशक्ति यतमानस्य विशुद्धाहारवस्त्रपात्रोपाश्रयग्राहिणो निन्दनं हीलनं कुर्वाणा यथैते बकवृत्तयो विप्रतारका देयग्राहकादिशुद्धिव्याजेन साधूनां दानं च निवारयन्त्यतो नैतद्वचः श्रोतव्यमिति । आहाराय प्रशंसा आहारप्रशंसाः कलिकालकल्पद्रुमाः, सङ्घपुरुषा भवन्तः, भवदीयदानेनैव तीर्थं प्रवर्तते, एषणीयानेषणीयविचारणं च कार्पण्यलक्षणमित्येवंलक्षणा आहारदानमेवोत्तममित्यादिरूपा वा, ताभिः, सप्तमी चेयं तृतीयार्थे, चः पूर्वोक्तसमुच्चये नयन्ति प्रापयन्ति दुर्गतिं नैरयिक्यादिकां जनं लोकं बहुकं प्रभूतमिति गाथाद्वयार्थः ।।९३,९४ ।। चक्रे० : अधुना यः शरीरसामर्थ्यादिविरहात्क्रियाशिथिलो मनाक्शुद्धचित्ततया परलोकाभिमुखश्च तस्योपदेशमाहुः - देव० : अधुना यः शरीरसामर्थ्यादिविरहात्क्रियाशिथिलो मनाक्शुद्धचित्ततया परलोकाभिमुखश्च तस्योपदेशमाह - हुज्ज हु वसणप्पत्तो सरीरदोब्बल्लयाए असमत्थो । चरणकरणे असुद्धे सुद्धं मग्गं पंरूविज्जा ।।९५ ।। चक्रे० : हुर्वाक्यालङ्कारे, भवेद् व्यसनप्राप्त आपद्गतः, इन्द्रियार्थाशक्तो वा, वाशब्दस्याध्याहाराद्वार्द्धक्यरोगादिकृतेन शरीरदौर्बल्येनाऽसमर्थो वा क्रियां कर्तुम् । ततश्चरणं व्रतादि, करणं पिण्डविशुद्ध्यादि तस्मिन्त्रशुद्ध सातिचारमले शुद्धं मार्ग ज्ञानादिरूपं प्ररूपयेत् श्रेणिकसुतनन्दीषणवत् ।।९५।। १. भवदीयमानेन A. २. वसणुप्पत्तो T,C.Z ३. परूवेज्जा A.Z
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy