SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ३-मार्गतत्त्वम् गा-९३, ९४ १२७ मपवादम्, किन्तूभयमपि यथायोगमालम्बत इत्यर्थः । ५-भावे विधिसारे धर्मानुष्ठाने करणस्वरूपे कुशलः । इदमुक्तं भवति-विधिकारिणमन्यं बहु मन्यते, स्वयमपि सामग्रीसद्भावे यथाशक्ति विधिपूर्वकं धर्मानुष्ठाने प्रवर्त्तते । सामग्र्या अभावे पुनर्विध्याराधनमनोरथान्न मुञ्चत्येवेति । ६-व्यवहारे गीतार्थाचरितरूपे कुशल: देशकालाद्यपेक्षयोत्सर्गापवादवेदिगुरुलाघवपरिज्ञाननिपुणगीतार्थाचरितं व्यवहारं न दूषयतीति भावः । एसो पवयणकुसलो छन्भेओ मुणिवरेहिं निद्दिट्ठो । किरियागयाइँ छव्विहलिंगाई भावसद्दस्स ।। एतानि भावश्रावकस्य क्रियोपलक्षणानि षडेव लिङ्गानि ।।५२।। चक्रे० : अथ ये सिद्धान्तमपहृत्योन्मार्गमुपदिशन्ति साधुनिन्दां च कुर्वन्ति तेषां विश्वस्तघातित्वमाहुः - देव० : एवं च सति ये सिद्धान्ततत्त्वमपहृत्योन्मार्गमुपदिशन्ति सुसाधुनिन्दां च कुर्वन्ति तेषां विश्वस्तघातित्वमाह - पुच्छंताणं धम्मं तंपि य न परिक्खिउं समत्थाणं । आहारमित्तलुद्धा जे उम्मग्गं उवइसंति ।।१३।। सुगई हणंति तेसिं धम्मियजणनिंदणं करेमाणा । आहारपसंसासु य निति जणं दुग्गई बहुयं ।।९४ ।। चक्रे० : पृच्छतां प्रश्नयतां भव्यानाम्, धर्मं गृहियतिभेदभिन्नम्, तमपि च कथ्यमानं परीक्षितुमसमर्थानां मुग्धबुद्धित्वात्, अनेन तेषामत्यन्ताऽनुकम्प्यत्वमुक्तम् । आहारोऽशनादिः, उपलक्षणं चैतद् वस्त्रपात्रपूजादेः, तन्मात्रे सिद्धिसुखवैमुख्याल्लुब्धा ये यथाच्छन्दादय उन्मार्गमशुद्धदानादिरूपमुपदिशन्ति ‘मा ममैते विवेकिनः सन्तः, आधाकर्मादिदोषदूषितमाहारादि न दास्यन्ति' अनेन च तेषामतिक्लिष्टतामाहुः, यदुक्तम् - जह सरणमुवगयाणं जीवाणं निकिंतइ सिरे जो उ । एवं आयरिओ वि हु उस्सुत्तं पन्नवंतो उ ।। [उपदेशमाला-५१७] यत्तदोर्नित्यसम्बन्धात्ते किमित्याहुः, सुगतिं घ्नन्ति तेषां पृच्छकानामुन्मार्गस्थापितानाम् । धार्मिकजनः शुद्धाहारवस्त्रपात्रोपाश्रयग्राही यतिजनस्तस्य निन्दनं 'मायाविन एते' इत्यादिकं कुर्वाणाः सप्तम्यास्तृतीयार्थत्वादाहारप्रशंसाभिः, आहारार्थं कल्पद्रुमा यूयमित्यादिश्रावकप्रशंसाभिः, आहारदानमेवोत्तममित्यादिकाभिर्वा नयन्ति जनं दुर्गतिं बहुकमिति गाथाद्वयार्थः ।।९३, ९४ ।। १. नेति T.Cणंति A२. दोगई AT.C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy