SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ३-मार्गतत्त्वम् गा-८७ चक्रे० : यद्येवं तत्कथं क्वचिल्लूतातन्तुजालाद्यपनयनं साधोरुक्तमित्याहुः - देव० : यद्येवं कथमागमे क्वचिल्लूताद्यपनयनं साधोरभिहितमित्याह - अन्नाभावे जयणाए मग्गनासो हविज्ज मा तेण । पुवकयाययणाइसु ईसिं गुणसंभवे इहरा।।८७।। चक्रे० : अन्यस्य श्रावकयथाभद्रकादेरभावे मार्गनाशस्तीर्थनाशो मा भूत्तेन कारणेन पूर्वकृताऽऽयतनादिषु चिरन्तनजिनभवनेषु, आदिशब्दाद् बिम्बेष्वीषद्गुणसम्भवे च कस्यचिज्जिनधर्मप्रतिपत्त्यादिकस्तोकगुणसम्भवे च यतनयाऽऽगमोक्तक्रियया लूताद्यपनयनं कार्यमिति शेषः ।।८७।। देव० : अन्यस्य श्रावकस्य वा भद्रकादेरभावे मार्गनाशस्तीर्थोच्छेदो मा भूत्तेन कारणेन पूर्वकृतायतनादिषु चिरन्तनजिनभवनेषु, आदिशब्दाद् बिम्बेष्वीषद्गुणसम्भवे च कस्यचिज्जिनधर्मप्रतिपत्त्यादिस्तोकगुणसम्भवे च यतनया षट्कायोपमर्दविरहात्मिकया परैरदृश्यमानत्वरूपया च लूताद्यपनयनादिकं विधेयमिति शेषः यदुक्तम् - सीलेह मंखफलए इयरे चोयंति तंतुमाईसु । अभिजोयंति सवित्तिसु अणिच्छफेडंतदीसंता ।। [ व्याख्या-इतरे चैत्यवासिनस्तान् साधवः प्रेरयन्ति तन्त्वादिषु लूतापनयनादिषु विषये, कथम् ? शीलयत सज्जयत मङ्खफलकान्याजीविकाहेतुत्वसाम्याज्जिनबिम्बानि, इत्येवं स्ववृत्तिषु स्वाजीविकास्वभियोजयन्ति, यदा तु ते नेच्छन्ति तदा परैरदृश्यमाना स्वयमप्यपनयन्ति लूतादीनि ।।८७ ।। * पञ्चवस्तौ-१०२ * तथा चाह - अण्णाभावे जयणाएँ मग्गणासो हविज्ज मा तेणं । पुवकयायणाइसु ईसिं गुणसंभवे इहरा ।। अन्याभावे श्रावकाद्यभावे यतनयाऽऽगमोक्तया क्रियया, मार्गनाशस्तीर्थनाशो मा भूदित्यर्थः, तेन कारणेन पूर्वकृतायतनादिषु महति सन्निवेशे सच्चरितलोकाकुल अर्धपतितायतनादिष्वीषद्गुणसम्भवे च कस्यचित्प्रतिपत्त्यादिस्तोकगुणसम्भवे च सत्येतदुक्तम्, इतरथाऽन्यथा ।।१०२।। १. जयणाइ PK
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy