SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १२० रणम् - सम्यक्त्वप्रकरणम कंचणमणिसोवाणं थंभसहस्सूसियं सुवन्नतलं । जो कारिज्ज जिणघरं तओ वि तवसंजमो अहिओ ।। [उपदेशमाला-४९४] अतस्तादृशद्रव्यस्तवाराधका अपि सर्वसंवररूपं भावस्तवमाराध्यैवाभिलषितार्थसाधका भवन्ति । ननु जिनयात्रामहोत्सवामारिघोषणमहादानादिप्रवृत्तिहेतुकत्वेन प्रवचनप्रभावनाप्रधानत्वाद् द्रव्यस्तव एव महद्धिकः, यतः प्रवचनप्रभावनैव दर्शनसर्वस्वम् । तदुक्तम् - इदं दर्शनसर्वस्वमिदं दर्शनजीवितम् । सामर्थ्येन यदर्थेन क्रियते शासनोन्नतिः ।। [ ] इति । अत्रोच्यते-प्रवचनप्रभावनाङ्गान्यपि जिनयात्रादीनि, षट्कायोपमर्दपुरस्सरं विधीयमानानि न तथाविधफलसाधनाय प्रभवन्ति, षट्कायहितमेव चार्हन्तः प्रतिपादयन्ति । उत्कृष्टतपः श्रुतचारित्रधारिणश्च परमार्थतः प्रवचनप्रभावकास्तदुपदेशादेव च जिनशासनोन्नतयः सर्वाः प्रवर्तन्ते, तस्मादनिपुणमतेरयमभिप्राय इत्युपेक्षणीयः । उक्तं च - दवत्थओ य भावत्थओ या दवत्थओ बहुगुणो त्ति बुद्धिसिया । अनिउणमइवयणमिणं छज्जीवहियं जिणा बिंति ।। [पुष्पमाला-२३३] तस्मात् - अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दवत्थए कूवदिटुंतो ।। [पञ्चवस्तु-१२२४] इति गाथार्थः ।।८६ ।। * उपदेशमाला पुष्पमालायाम्-२३२ * अथ चारित्रपरिपालनाच्चैत्यविधापनादिकं बहुगुणम्, अत्राह - सव्वरयणामएहिं विहूसियं जिणहरेहिं महिवलयं । जो कारिज्ज समग्गं तओऽवि चरणं महिड्डीयं ।। प्रतिग्रामं प्रतिनगरं च सकलमपि पृथ्वीतलं सर्वरत्नमयैश्चैत्यैविभूषितं यः कारयेत् ततोऽपि 'व्याख्यानतो विशेषप्रतिपत्तेः' यथोक्तचैत्यविधायककृत्यादपि, आस्तामेकचैत्यमाविधायकादिकृत्यात्, किमित्याहचरणं महर्द्धिकं चारित्रप्रतिपालनं बहुगुणमित्यर्थः, यतः सर्वोत्कृष्टगुणादपि श्रावकादनन्तगुणविशुद्धगुणश्चारित्र्यागमे पठ्यते, अत एव कारितसर्वरत्नमयचैत्यभवनादयोऽपि भरतचक्रवर्त्यादयस्तद्दिनदीक्षमपि चारित्रिणं भक्तितः पञ्चाङ्गं प्रणिपतन्तीति गाथार्थः ।।२३२।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy