SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ३ - मार्गतत्त्वम् चक्रे : व्याख्यातं द्वितीयं धर्मतत्त्वम् । अथ मार्गतत्त्वस्याऽवसरोऽस्य च पूर्वेण सहाऽयं सम्बन्धः- धर्मः सन्मार्गानुसारेण स्यादतो मार्गं प्रतिपादयितुं शृङ्खलया तत्प्रस्तावनामाहुः - देव० : व्याख्यातं द्वितीयं धर्मतत्त्वम् । अथ मार्गतत्त्वस्यावसरोऽस्य च पूर्वेण सहाऽयं सम्बन्धःपूर्वं गृहिधर्मो यतिधर्मश्च प्रत्यपादि, तत्र गृहिधर्मो द्रव्यस्तवमार्गानुपाती, यतिधर्मश्च भावस्तवमार्गानुपातीति प्रस्तावादुभयरूपमपि मार्गं प्रतिपिपादयिषुः शृङ्खलया तत्प्रस्तावनामाह - दुलहा गुरुकम्माणं जीवाणं सुद्धधम्मबुद्धी वि । तीए सुगुरु तम्मि वि कुमग्गठिइसंकलाभंगो।।६९।। चक्रे० : दुर्लभा गुरुकर्माणां जीवानां शुद्धधर्मबुद्धिरपि, आस्तां कायेनानुष्ठानम् । अथ कथञ्चिद्भवितव्यतानियोगाज्जातायामपि तस्यां सुगुरुर्दुर्लभः, कुतोऽपि कर्मविवरात् तस्मिन्नपि प्राप्ते कुमार्गः शिवपथप्रतिपन्थी पन्थास्तस्य स्थितिर्व्यवस्था सैव सङ्कला तस्या भङ्गो दुर्लभ इति।।६९।। देव० : दुर्लभा दुष्पापा, गुरुणि क्लिष्टाध्यवसायजनितत्वेन स्थित्यादिभिर्महान्ति कर्माणि दर्शनचारित्रमोहनीयादीनि येषां ते, तथा तेषां जीवानां प्राणिनाम्, कासौ ? शुद्धधर्मबुद्धिरपि, तत्र शुद्धः प्रबलमोहावृतप्राणिप्रवर्तितागमप्रतिकूलाऽसत्प्रवृत्तिकलङ्करहितः, स चासौ धर्मश्च, तत्र बुद्धिरभिलाषः, शुद्धधर्मबुद्धिरास्तां कायेनानुष्ठानमित्यपेरर्थः, अथ कथञ्चिद्भवितव्यतानियोगाज्जातायामपि तस्यां 'धम्मणू धम्मकत्ता य' इत्यादिवक्ष्यमाणलक्षणः सुगुरुर्दुर्लभ इति सर्वत्र सम्बन्धनीयम् । तदभावे तस्या अपि निष्फलत्वाद्, अथ कुतोऽपि कर्मविवरात्तस्मिन्नपि गुरावपि प्राप्त इत्यर्थः, कुत्सितः शिवपुरप्रतिपन्थित्वेन मार्गः पन्थास्तस्य स्थितिर्व्यवस्था, सैव संसारचारकनिर्गमनिरोधकत्वेन सङ्कला लोहमयबन्धनं कुमार्गस्थितिसङ्कला तस्या भङ्ग इव
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy