SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ २- धर्मतत्त्वम गा ६६, ६७, ६८ १०३ निह्नुत इति कृतज्ञः, कृतघ्नो हि सर्वत्राप्यमन्दां निन्दां समासादयति । २०-परेषामन्येषां हितान् पथ्यानर्थान् प्रयोजनानि कर्तुं शीलं यस्य स परहितार्थकारी, सदाक्षिण्योऽभ्यर्थित एव करोत्ययं पुनः स्वत एव परहिताय प्रवर्तत इत्यनयोर्भेदः, यश्च प्रकृत्यैव परहितकरणे नितरां निरतो भवति स निरीहचित्ततयाऽन्यानपि सद्धर्मे स्थापयति । तथा २१-लब्धमिव लब्धं लक्षं शिक्षणीयानुष्ठानं येन स लब्धलक्षः, पूर्वभवाभ्यस्तमिव सर्वमपि धर्मकृत्यं झटित्येवाधिगच्छतीति भावः, ईदृशो हि वन्दनप्रत्युपेक्षणादिकं धर्मकर्म सुखेनैव शिक्षयितुं शक्यते, तदेवमेकविंशतिगुणसंपन्नः श्राद्धः श्रावको भवतीति ।।१३५६, १३५७, १३५८ ।। * संबोधसप्ततिकायाम्-२३, २५ * x x x ५ - अक्रूरो भृकुट्याद्यकरणशीलः । १७- वृद्धानुगो वृद्धानां मातृपितृणां गुरूणां च मार्गमनुगच्छतीति वृद्धानुगः, तन्मार्गनिसेवक इत्यर्थः x x x * संबोधसित्तर्याम्-२३ * x x x तत्र १-अक्षुद्रोऽनुत्तानमतिः । ३-प्रकृतिसोमः स्वभावतोऽपापकर्मा। ५-अक्रूरोऽक्लिष्टचित्तः, मत्सरादिदूषितपरिणामो न भवति । ८-सुदाक्षिण्यः प्रार्थनाभङ्गभीरुरिति x x x
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy