SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०० दर्शनशुद्धिप्रकरणम - सम्यक्त्वप्रकरणम पूर्वोक्तविनयसम्पन्नः, स चागर्वितया सदैव गुरुषु विनयं प्रयुञ्जानोऽनुत्तरां श्रुतादिसम्पदमासादयति, उक्तं च - विणयाओ नाणं नाणाओ दंसणं दंसणाओ चारित्तं । चरणाहिंतो मुक्खो मुक्खे सोक्खं अणाबाहं ।।१८ ।। [गुरुवन्दनभा० ३१] १९-कृतं जानातीति कृतज्ञः स एव कृतज्ञकः, स हि स्तोकोपकारकमपि बहुमन्यते, कृतघ्नस्य निष्कृतिरेव नास्ति, यदाह- ‘कृतघ्ने नास्ति निष्कृतिः' इति । २०-परेषां हितार्थं समीहितप्रयोजनं तत्करोतीति परहितार्थकारी, परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् । चः समुच्चये, तथा तेन गुणस्वरूपलक्षणप्रकारेण, चैवेति समुच्चये, २१-लब्धलक्षः प्रत्यासन्नमुक्तिगमनत्वेन सकलसत्क्रियासु प्राप्तकौशल्यः । गुणगुणिनोरभेदोपचारविवक्षयेत्थम्भूतैकविंशतिगुणयुक्तो धर्मरत्नयोग्यो भवतीति योजितमेव । इह च धर्मलोकाबाधयैकद्वित्र्यादिगुणाभावेऽपि धर्मयोग्य त्वमुन्नेयं सुगृहीतनामधेयश्रीस्थूलभद्रचण्डरुद्राचार्यादिषु पूर्वपुरुषेषु क्वचित्तथैव दर्शनादिति गाथात्रयार्थः ।।६६,६७,६८।। ।। इति श्रीदेवभद्रसूरिविरचिते दर्शनशुद्धिप्रकरणविवरणे द्वितीयं धर्मतत्त्वं समाप्तम् ।। श्रीरस्तु।। * धर्मरत्नप्रकरणे-५, ६, ७ * भणितमेवाह - धम्मरयणस्स जोगो अक्खुद्दो रूववं पयइसोमो । लोगप्पिओ अकूरो भीरू असढो सुदक्खिनो ।। लज्जालुओ दयालू मज्झत्थोसोमदिट्ठि गुणरागी । सक्कह-सुपक्खजुत्तो सुदीहदरिसी विसेसन्नू ।। वुड्डाणुगो विणीओ कयन्नुओ परहियत्थकारी य । तह चेव लद्धलक्खो इगवीसगुणेहिं संपन्नो ।। __ अस्य गाथात्रितयस्य पूर्वसूरिप्रणीतस्यार्थः-धर्माणां मध्ये यो रत्नमिव वर्त्तते स धर्मरत्नं जिनप्रणीतो देशविरतिसर्वविरतिरूपः समाचारः, तस्य योग्य उचितो भवतीत्यध्याहारः । एकविंशतिभिर्गुणैः संपन्न इति, इत्युत्तरेण योगः। तानेव गुणान् गुणगुणिनोः कथञ्चिदभेद इति दर्शनाय गुणिप्रतिपादनद्वारेणाह
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy