________________
परिशिष्ट-२
४२७ "अधण्०" (१.१.३२) इत्यव्ययत्वाद् “अव्ययस्य" (३.२.७) इति स्यादेर्लुपि सस्य रुत्वे विसर्गे च कतिकृत्व इति तद्धितान्ता वृत्तिः, अत्रापि सङ्ख्यातिदेशात् कृत्वसः सिद्धिः । एवमिति “इंण्क् गतौ” इत्यतः “लटि" (उणा० ५०५) इति वे गुणे च एव' इति, अस्यैव चादिगणपाठनिपातनसामर्थ्याद् एवमिति “एवं प्रकारोपमयोरङ्गीकारावधारणे" इति वचनात् कतिशब्दोपवर्णितप्रकारेणेत्यर्थः । 'यजी देवपूजादौ” “तनूयी विस्तारे" आभ्याम् “तनि-त्यजि०" (उणा० ८९५) इति डति यत्तदौ निष्पद्यते। उभावपि बुद्धिविशेषविषयतावच्छेदकत्वोपलक्षिततत्तद्धर्मावच्छिन्नं बोधयतः, इयाँस्तु भेदः-यच्छब्दो हि उद्देश्यताक्रान्तं निरुक्तधर्मावच्छिन्नं वाच्यत्वेनावलम्बते, तच्छब्दस्तु प्रकान्तं (प्राक्तनबुद्धिविशेषविषयतया चुम्बित) तत्त्वेनालम्बत इति। अस्ति हि प्रसिद्धवचनोऽपि तच्छब्दः यथा
"नूतनजलधररुचये गोपवधूटीदुकूलचौराय। तस्यै कृष्णाय नमः संसारमहीरुहस्य बीजाय" ।।२।।
(न्यायसिद्धान्तमुक्तावली प्र० ख० का० १) इत्यादी। निरुक्तधर्मावच्छिन्नं प्रक्रान्तमपि तं तत्रैव तच्छब्दः परामृशति यत्र स्वघटितवाक्यादितरस्मिन् वाक्ये यच्छब्दो निरुक्तधर्मावच्छिन्नं यं बोधयितुमीष्टे, नूतनेतिकारिकादौ तु न तथेति तत्र प्रसिद्धवचन एवोपादेयः। एवं क्वचन ब्रह्मवचनोऽपि दृश्यते तच्छब्दः, यथा-"ॐ तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः" इति (गीता १७।२३), प्रकृते च प्रसिद्धाद्यर्थो न घटत इति बुद्ध्यारूढस्यैवार्थस्य ग्रहणमिति। प्रकृतमनुसरामः। या सङ्ख्या मानमेषामिति यति, यतिभिः क्रीत इति यतिकः। यतिभिः प्रकारैरिति यतिधा। यति वारा अस्येति यतिकृत्वः। सा सङ्ख्या मानमेषामिति तति, ततिभिः क्रीत इति ततिकः। ततिभिः प्रकारैरिति ततिधा। तति वारा अस्येति ततिकृत्वः। शेषसाधनिका पूर्ववत्। उपदर्शितो डतिप्रत्ययान्तस्य सङ्ख्यातिदेशप्रयोजनप्रदेशः।
__ अधुना अतुप्रत्ययान्तस्य विचारावसर इति भूमिकां रचयति-'अतु' इति। या सङ्ख्या मानमेषामिति यावन्तः, यावद्भिः क्रीत इति यावत्कः। यावद्भिः प्रकारैरिति यावद्धा। यावन्तो वारा अस्येति यावत्कृत्वः । अत्र यच्छब्दाद् “यत्तदेतदो डावादिः" (७.१.१४९) इति डावादिरतुः, तत्र च डकारोकारावितो, ततोऽन्त्यस्वरादिलोपे यावत्शब्दात् क-धा-कृत्वस्प्रत्ययेषु निरुक्तरूपाणि। *यदागमा यद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते* इति न्यायाद् डावादिरतुरपि अतुप्रत्ययव्यवहारभाक्। एवं सा सङ्ख्या मानमेषामिति तावन्तः, तावद्भिः क्रीत इति तावत्कः। तावद्भिः प्रकारैरिति तावद्धा। तावन्तो वारा अस्येति तावत्कृत्वः। शेषं यावच्छब्दवद् विज्ञेयम्। का सङ्ख्या मानमेषामिति कियन्तः, कियद्भिः क्रीत इति कियत्कः। कियद्भिः प्रकारैरिति-कियद्धा। कियन्तो वारा अस्येति कियत्कृत्वः। अत्र 'किम्' शब्दाद् 'इदंकिमोऽतुरिय किय् चास्य' (७.१.१४८) इत्यतौ कियादेशे च ‘कियत्' इति शब्दः, शेषं प्राग्वत्।
ननु संज्ञाप्रस्तावात् “डत्यतु सङ्ख्या" इत्याकारकं संज्ञासूत्रमेवास्तु, एवं सति वत्प्रत्ययोपादानमपि न कर्तव्यमित्यपरमनुकूलम्। न च संज्ञासूत्रत्वे एकादिकायाः सङ्ख्यायाः सङ्ख्या प्रदेशेषु (सङ्घयोद्देश्यकशास्त्रेषु “सङ्ख्या-डते०" (६.४.१३०) इत्यादिषु) संप्रत्ययार्थं (सङ्ख्यात्वावच्छिन्नोद्देश्यतया ग्रहणार्थ) “डत्यतुसङ्ख्या सङ्ख्या" इति संज्ञिकोटावपि सङ्ख्याग्रहणं कर्तव्यम्, तथा सत्येव डतिप्रत्ययान्तमतुप्रत्ययान्तं नाम सङ्ख्या चैकादिका सङ्ख्या संज्ञानि भवन्तीति सूत्रार्थः सम्पत्स्यते, 'द्विकम्' इत्यादौ क-धा-प्रभृतिप्रत्ययादयश्च इष्टाः सेत्स्यन्तीति सङ्ख्याग्रहणप्रयुक्तं गौरवमिति वाच्यम्, “सोमात् सुगः" (५.१.१६३) "अग्नेश्च:" (५.१.१६४) इत्यादौ यथा वाचकतासम्बन्धेन सोमाग्न्याद्यर्थविशिष्टशब्दस्यैव ग्रहणं तथा "दृतिनाथात् पशाविः” (५.१.९७) “ङसोऽपत्ये" (६.१.२८) “देवता" (६.२.१०१) इत्यादावपि पश्वपत्यदेवतादीनां शब्दानामेव ग्रहणं प्राप्नुवदपि इष्टलक्ष्यानुसारिव्याख्यानतोऽवरुद्ध्यते, पश्वादिलौकिकार्थाश्च गृह्यन्ते, तथा सन्तश्च ते इष्टलक्ष्याणि निवर्तयितुं क्षमन्ते, एवं सङ्खयाप्रदेशेष्वपि एकादिका सङ्ख्या लोकप्रसिद्धा ग्रहीष्यते, "डत्यतु०" सूत्रं तु सङ्ख्याप्रदेशेषु ग्रहणेनाऽननुगृहीतानां कतिप्रभृतीनां ग्राहणेन कृतार्थीभवेदिति संज्ञिकोटौ सङ्ख्याग्रहणस्यानावश्यकत्वात्। न चाऽक्रियमाणे सङ्घयाग्रहणे लोके यथा-'गोपालकमानय, कटजकमानय' इत्यादौ 'गोपालक कटजक'