________________
૪૨૬
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું “क्त-क्तवतू" (५.१.१७४) इति कर्मणि ते कर्मण उक्तत्वाद् “नाम्नः प्र०” (२.२.३१ ) इति सिः; कतिभिः क्रीत इति विग्रहवाक्यम्; 'सङ्ख्या-डतेः०" (६.४.१३०) इति क्रीतार्थे कप्रत्यये “ऐकार्थ्ये" (३.२.२८) इति भिसो लुपि कतिक इति तद्धितान्ता वृत्तिः ।
ननु डतिप्रत्ययान्तेऽतिदेशमन्तराऽपि “सङ्ख्या-डतेः०” (६.४.१३०) इति सूत्रे. सङ्ख्याग्रहणपार्थक्येन डतिग्रहणादेव कतिक इत्यत्र कप्रत्ययः सेत्स्यतीति व्यर्थोऽतिदेश इति चेत्, सत्यम् सङ्ख्याग्रहणेन ग्रहणार्हस्यापि कतिशब्दस्य त्यन्तत्वेन 'अशत्तिष्टेः' इति प्रतिषेधः स्यादिति तदुज्जीवनाय हि डतेः पृथग्ग्रहणम् ।
नन्वानुपूर्वीप्रकारकोपस्थितिप्रयोजकपदोपादाने अर्थवद्ग्रहणे नानर्थकस्य इति न्यायः प्रवर्तत इति प्रकृतेऽपि तिशब्दस्य स्वरूपबोधकत्वेनानेन न्यायेन 'अशत्तिष्टेः' इत्यत्राऽर्थवत एव तेर्ग्रहणेन डतिघटकस्य तेरनर्थकतयैव न प्रतिषेधप्राप्तिरिति चेत्, मैवम्-षष्टिशब्दस्य तिप्रत्ययान्ततया त्यन्तप्रतिषेधेनैव सिद्धौ पृथक् ष्ट्यन्तप्रतिषेधस्याव्युत्पत्तिपक्षज्ञापनात्, तत्पक्षे च निरुक्तन्यायाप्रवृत्तेः प्रतिषेधादेव कप्रत्ययमिति तदर्थं डतेरुपादानमावश्यकम्।
किञ्च, सङ्ख्यात्वेनैव कप्रत्ययसिद्धौ क्रियमाणं डतिग्रहणम् * अर्थवद्ग्रहणे इति न्यायस्याऽनित्यत्वं ज्ञापयति, एवं सत्यनर्थकस्यापि तिशब्दस्य ग्रहणेन कतीत्यादौ त्यन्ते कप्रत्ययप्रतिषेधः स्यादिति तदुज्जीवनेन डतेः पृथग्ग्रहणं चरितार्थम् । ज्ञापनस्थले च स्वांशे चारितार्थ्यमन्यत्र फलं च किञ्चिदवश्यं भवतीत्यनित्यत्वज्ञापनस्यान्येन फलेनापि केनापि भवितव्यम्, तच्च फलं प्रकृते एतदेव, यत्-एकसप्ततिरित्यादौ त्यन्तत्वेन प्रतिषेधः सिद्धः, अन्यथा (नित्यत्वे ) परिमाणार्थमादायार्थवान् 'ति 'शब्दः प्रत्यय एव सम्भवेदिति प्रत्ययत्वज्ञाने “प्रत्ययः प्रकृत्यादेः” (७.४.११५) इत्येतद्बललभ्यतदन्तविधौ सति त्यन्ते सप्ततिशब्दादौ कप्रत्ययनिषेधेऽपि ऊनाधिकग्रहणाभावेन एकसप्तत्यादिशब्दस्त्यन्तत्वेन न गृह्येतेति तत्र निषेधाप्रवृत्तौ कप्रत्ययापत्तेः । अनित्यत्वे तु 'अशत्तिष्टेः ' इत्यत्रत्यतिशब्दः प्रत्यय एव ग्रहीतव्य इति नियमाभावे “प्रत्ययः प्रकृत्यादेः” (७. ४. ११५) इत्यस्याप्रवृत्ती "सङ्ख्या- डते: ० ' (६.४.१३०) इत्यत्र सङ्ख्यापदेनाऽभेदान्वयोपपत्त्यर्थं कल्पनया तदन्तविधिलाभेऽपि "प्रत्ययः ०" (७.४.११५) इत्येतत्प्रवृत्तिबलेन लभ्य ऊनाधिकग्रहणाभाव इदानीं न लभ्येतेति त्यन्तत्वसत्त्वादेकसप्तत्यादावपि प्रतिषेधः सिद्ध्यति ।
"
वस्तुतस्तु डत्यन्ते सङ्ख्याकार्यातिदेशः कतिक इत्यत्र केवलं कप्रत्ययमुत्पाद्यैव न कृती भवति, 'कतिधा' इत्यत्र “सङ्ख्याया धा” (७.२.१०४) इति धाप्रत्ययम्, 'कतिकृत्वः ०' इत्यत्र "वारे कृत्वस्” (७.२.१०९) इति कृत्वस्प्रत्ययं च सङ्ख्यात्वावच्छिन्नोद्देश्यताकं समुत्पाद्यापि कृतार्थो भवितुमर्हति सेयं कृतार्थता डत्यन्तस्य सङ्ख्यातिदेशेनैव भवेदिति मन्तव्यम् । प्रपूर्वात् “डुकृंग् करणे” इत्यतः प्रकरणानि प्रभेदकरणानि प्रकृष्टकरणानि वेत्यर्थे "भावाऽकर्त्राः " (५.३.१८) इति घञि "नामिनोऽक० " (४.३.५१) इति वृद्धौ 'प्रकार' इति नाम्नो भिसि "भिस० " (१.४.२) इत्यैसादेशे सन्धौ रुत्वे विसर्गे च प्रकारैरिति, सामान्यस्य भिद्यमानस्य भेदान्तरानुप्रवृत्ता भेदाः प्रकारास्तैरित्यर्थः । कतिभिः प्रकारैरिति विग्रहः, कतिधेति तद्धितान्ता वृत्तिः, अत्र डत्यन्तस्य सङ्ख्यातिदेशात् “सङ्ख्याया धा" (७.२.१०४) इति धाप्रत्ययो भवति, अन्यथा नियतविषयपरिच्छेदहेतुत्वाभावेन सङ्ख्यात्वविरहाद् डत्यन्तस्य पृथगनुपादानाच्च न स्यात्, धाप्रत्ययान्तस्य च “अधण्०" (१.१.३२) इत्यव्ययत्वेन स्यादेर्लोपः । कतीति - कतिशब्दाद् "नाम्नः " ( २.२.३१) इति जसि " डतिष्णः ० " (१.४.५४) इति तल्लपि च कतीति, ज्ञानाय यद्गतः सङ्ख्याविशेषः पृच्छ्यते ते कतिशब्दस्यार्थः। वारा इति–“वृग्ट् वरणे” इत्यतो त्रियन्त इत्यर्थे "युवर्णवृ०" (५.३.२८) इत्यापवादिकाल्प्राप्तावपि बाहुलकाद् घञि वृद्धौ च वारेतिनाम्नो जसि सस्य रुत्वे "रोर्यः " (१.३.२६) इति यत्वे "स्वरे वा" (१.३.२४) इति यकारस्य लुकि च वारा इति, धात्वर्थस्य यौगपद्येन वृत्तयस्तत्काला वेत्यर्थः । अस्येति - "इंण्क् गतौ” इत्यतः "इणो दमक्" ( उणा० ८३८) इति दमकि इदम्, ततः “शेषे” (२.२.१) इति ङसि " आ द्वेरः " (२.१.४१) इति मस्याऽकारे "लुगस्या०" (२.१.११३) इति पूर्वाकारलोपे “टाङसो०” (१.४.५) इति ङसः स्यादेशे एकदेशविकृतन्यायेन ' इद' इत्यस्य स्थाने " अनक्" (२.१.३६) इत्यनेन अदादेशे तकारस्योचारणार्थत्वाद् ‘अस्य' इति रूपसिद्धिः, बुद्धिस्थत्वादिना पुरोवर्तिन इति तदर्थः । कति वारा अस्येति विग्रहवाक्यम् । कृत्वस्प्रत्ययान्तस्य