SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ 3७७ अन्यो घोषवान् ।१।१।१४।। बृन्यास-अन्य इत्यादि-अत्र तु जातिः। अघोषापेक्षया चात्रान्यत्वम्, तेन येषामतिशयशाली घोषस्तेऽन्यत्वजात्या समध्यासिता घोषवन्तः। घोषणं घुषेत्रि घोषः, न विद्यते घोषो ध्वनिर्येषामिति तेऽघोषाः। अन्वर्थता च 'तुल्यस्थानास्य०' (१.१. १७) इत्यत्रोपदेशे दर्शयिष्यते ।।१४।। ल.न्यास- अन्य इत्यादि-(घोषवानिति) घोषो ध्वनिविद्यते यस्य स तथा। अन्वर्थता च "तुल्यस्थानास्य." (१.१.१७) इत्यत्र दर्शयिष्यते। घोषवानिति जातिनिर्देशः, अघोषाऽपेक्षया चान्यत्वम्, तेन येषामतिशायी घोषस्तेऽन्यत्वजात्यध्यासिता घोषवन्त इत्यर्थः ।।१४।। यरलवा अन्तस्थाः ।११।१५।। बृन्यास-यरलवेत्यादि-स्वस्य स्वस्य स्थानस्यान्ते तिष्ठन्तीति “स्थापास्नात्रः कः" (५.१.१४२) इति के “इडेत्पुसि०" (४.३.९४) इत्याकारलोपे अन्तस्थाः। *लिङ्गमशिष्यं लोकाश्रयत्वाद् इति वर्णविशेषणमप्यन्तस्था स्त्रियां वर्तते? यथाकलत्रं स्त्रियामपि नपुंसकम्। सानु(नासिक-निरनु)नासिकभेदेन च रेफरहितास्ते वैविध्यं भजन्ते, तद्भेदपरिग्रहाय बहुवचननिर्देशः, अत आह-बहुवचनमिति ।।१५।। ल.न्यास-यरलवेत्यादि “लिङ्गमशिष्यं लोकाश्रयत्वाद्" इति वर्णविशेषणमपि अन्तस्थाशब्दः स्त्रीलिङ्गो बाहुलकात् शब्दशक्तिस्वाभाव्याद् बहुत्ववृत्तिश्च प्राय इति। य र ल व इतीते-अर्थवत्त्वाभावे नामत्वाभावान्न स्यादिः ।।१५।। अंअ: क)(पशषसाः शिट् ।११।१६।। बृन्यास-अं अ इत्यादि-क-)(पयोर्देश-काल-लिपिभेदेऽपि रूपाभेदाद् दृष्टान्तमाह-वज्राकृतिरिति। वज्रस्येवाऽऽकृतिराकारो यस्य स तथा, गजकुम्भयोरिवाऽऽकृतिर्यस्य सोऽपि तथा। ककार-पकारौ चानयोः परदेशस्थावुचार्येते, सर्वत्र परसम्बद्धावेवैतौ भवतः, न स्वतन्त्री, नापि पूर्वसम्बद्धौ, अन्यवर्णवबिन्दुवचेति ज्ञापनार्थम्। रेफादेशत्वात् कख-पफसनिधावेव तयोः प्रयोगादल्पविषयत्वम्, अत एव सत्यपि संज्ञिसामानाधिकरण्येऽल्पीयस्त्वज्ञापनाय 'शिट्' इत्येकवचनेन निर्देशः कृतः। कथमनयोर्वर्णत्वं वर्णरामाम्नाये पाठाभावात्? उच्यते-रेफस्य वर्णत्वात् तयोश्च तदादेशत्वाद् वर्ण(त्व)सिद्धिः। न च वर्णाऽऽदेशत्वेन लोपस्यापि वर्णत्वमाशङ्कनीयम्, तस्याभावरूपत्वाद्, न चाभावो भावस्याश्रयो भवितुमर्हति अतिप्रसङ्गाद्, अयमेवार्थो बहुवचनेन सूच्यते, अनुवादकत्वात् तस्य साधकत्ताभावाद्, इत्यत आह-बहुवचनमिति। अयं भावः-यद्येतावभावरूपो स्याताम्, कथं भावरूपाया एकत्वादिसंख्याया आश्रयो भवेताम्? भावधर्मत्वादाश्रयाश्रयिभावस्य, एकत्वादिषु वर्तमानानाम्नस्तानि (वचनानि) विहितानि, अतो बहुवचनं कुर्वन् ज्ञापयति-वर्णत्वमनयोरिति। ननु यदि सूचकमेव बहुवचनं न तु विधायकं तर्हि कथमुक्तं बहुवचनं प्ल तपरिग्रहार्थमिति? उच्यते-हस्व एव वर्द्धमानः प्लुतो भवति, साक्षात् पाठश्च वर्णसमानाये न विहितोऽल्पविषयत्वज्ञापनाय; दीर्घस्य तु प्रचुरविषयत्वात् साक्षात् पाठः, सिद्धचक्रस्याऽऽदौ साक्षात् पठितानामेवोपयोगात्, तथा 'षोडशदेव्योपगतम्' इत्यादावपि तत्पाठ एव षोडशत्वमुपपद्यते। अथवा दुरादामन्त्र्यादौ प्लुतस्य विधानात्, तत्रापि स्वरस्थानित्वेन वर्णत्वसिद्धिरिति युक्तमुच्यते स्वल्पोपयोगादुपलक्षणत्वेन तेषां परिग्रह इति। ननु अ- क-)(पानां व्यञ्जनसंज्ञाऽपि पूर्वेषामस्ति, तत् कथं तैः सह न विरोधः? उच्यतेव्यञ्जनसंज्ञाऽनन्तरमेषां संज्ञाविधानाद् व्यञ्जनसंज्ञाऽपि। यदि वा “कादिर्व्यञ्जनम्" (१.१.१०) इत्यत्राऽऽवृत्त्या कस्याऽऽदियोऽनुस्वारो विसृष्टो वा सोऽपि व्यञ्जनमित्यविरोध इति ।।१६।।
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy