SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 3७६ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન पञ्चको वर्ग: ।।१।१२।। बृन्यास-पञ्चक इत्यादि-सजातीयसमुदायो वर्गः, स चावर्ग-कवर्गादिभेदेनाष्टसंख्यत्वेन वर्णसमाम्नाये केवलिकादिशास्त्रे प्रसिद्धः, तत्र च यः पञ्चसंख्यत्वेन व्यवस्थितः, सोऽत्र वर्गसंज्ञत्वेन संज्ञायते, अत आह-कादिषु वर्णेषु यो यः पञ्चसंख्यापरिमाण इति। तेषां च पञ्चसंख्यात्वाद् 'यो यः' इति वीप्सा। पञ्चक:-पञ्चेति संख्या मानमस्य “संख्याडतेश्चाशत्तिष्टेः कः" (६.४.१३०) इति के पञ्चकः। “वृग्टवरणे" वृणोति आत्मीयमेकत्वेन व्यवस्थापयति, “गम्यमिरम्यजिगद्यदि०" (उणा० ९२) इति गे वः ।।१२।। ल.न्यास-पञ्चक इत्यादि-सजातीयसमुदायो वर्गः। स चावर्ग-कवर्गादिभेदेनाष्टधा वर्णसमानाये केवलिकादिशास्त्रेषु प्रसिद्धः, तत्र च यः पञ्चसंख्यात्वेन व्यवस्थितस्तस्येह वर्गसंज्ञेत्यत आह-कादिष्विति। यो य इति-संज्ञिनां बहुत्वादगृहीतवीप्सोऽपि पञ्चशब्दो वीप्सां गमयतीति। वृणोत्यात्मीयमेकत्वेन व्यवस्थापयति “गम्यमि०" (उणा० ९२) इति गे वर्गः, जात्यपेक्षमेकवचनम् ।।१२।। आद्यद्वितीयशषसा अघोषाः ।११।१३।। बृन्यास-आद्येत्यादि-आदौ भव: “दिगादिदेहांशाद् यः” (६.३.१२४) इति ये आद्यः, उम्भति पूरयति वृद्धि नयति द्वित्वसंख्याबुद्धिमिति “उभेत्रौ च" (उणा० ६१५) इति इकारे द्विः, तयोः पूरणे “देस्तीयः” (७.१.१६५) इति तीये द्वितीयः, ततो द्वन्द्वगर्भो द्वन्द्वः; आद्याश्च द्वितीयाश्चाद्यद्वितीयाः, शश्च षश्च सश्च शषसाः (आद्य-द्वितीय-श-ष-सा:)। बहुवचनं हि आद्यद्वितीयबहुत्व-प्रतिपादनार्थम्, तच्च यदि सर्वेषां वर्गाणां आद्या द्वितीयाश्च भवन्ति, तत एव सफलं भवति, अन्यथा त्वसमर्थत्वात् समासाभावः, वृत्ति-वाक्ययोरेकार्थप्रतिपत्तिः सामर्थ्यम्, वाक्ये च बहुत्वं प्रतीयते, न तु वृत्तौ, बहुवचनात् तु दृतावपि तदर्थप्रतिपत्तेरसमर्थत्वाभावः। न च 'कारकयोर्मध्यम्' (कारकमध्यम्) इत्यादावसामर्थ्यात् समासाभाव इति, द्वित्वनियामकस्य मध्यशब्दस्य सद्भावात्, ‘मत्तबहुमातङ्गवनम्' इतिवद् बहुशब्दात् बहुत्वप्रतिपादकात्। तथापि समासाभावः, आद्य-द्वितीयशब्दयोर्यदपेक्षमादित्वं द्वितीयत्वं च तदपेक्षितत्वादित्यपि न वाच्यम्, गुरुपुत्रादिवन्नित्यसापेक्षत्वाद्, अपेक्षायाश्च शब्दार्थत्वाद्, यदाह "सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते। स्वार्थवत् सा व्यपेक्षाऽस्य वृत्तावपि न हीयते" ।।१६।। इति, प्रत्यासत्तेश्च वगैरेव सा पूर्यते, अत आह-वर्गाणामाद्यद्वितीया वर्णा इति। ननु लाघवार्थं समाहार एव युक्तः यतः *मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणाः * इति। उच्यते-अर्थगौरवाय बहुवचननिर्देशः, अत आह-बहुवचनमिति, अन्यथा कवर्गस्यैव प्रथम-द्वितीयाविति सन्दिह्येत। ननु वर्गमात्रप्रस्तुतत्वात् प्रथमादिविशेषस्यानुपादानात् “शिट्याद्यस्य द्वितीयो वा" (१.३.५९) इतिवज्जातेः परिग्रहाल सर्ववर्गाणामाद्य-द्वितीयसिद्धेस्तदर्थबहुवचनस्य वैयर्थ्यमेव। नैवम्-"व्यक्तिरपि पदार्थोऽस्ति" इति ज्ञापनार्थम्, तस्यां च ककार-खकारयोथकार-छकारयोर्वा परिग्रहः स्यादिति, बहुवचनाञ्च सर्वासामाद्य-द्वितीयव्यक्तीनां स्वीकार इति, एवं सर्वत्र वचनफलमुन्नेयम् ।।१३।। ल.न्यास- आद्येत्यादि-(अघोषा इति-) अविद्यमानो घोषो येषाम्, यथा-अनुदरा कन्येति, बहुव्रीहिणा गतत्वान्न मतुः। ननु लाघवार्थं समाहार एव युक्तः, यतः *मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणाः* इत्याह-बहुवचनमिति, अन्यथा श-ष-ससाहचर्यात् कखयोः केवलयोरेव ग्रहः स्यात्। अव्यभिचारिणा व्यभिचारी यत्र नियम्यते तत् साहचर्यम् ।।१३।।
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy