SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ૩૬૨ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું " इदं फलमियं क्रिया करणमेतदेष क्रमो व्ययोऽयमनुषङ्गजं फलमिदं दशेयं मम । अयं सुहृदयं द्विषन् प्रकृतदेशकालाविमाविति प्रतिवितर्कयन् प्रयतते बुधो नेतरः " इत्येवमात्मकपरिदृष्टसामर्थ्यं कारकप्रयोक्तृत्वलक्षणम्, तदपि नानित्यस्य क्षणमात्रावस्थायित्वेनोपजननान्तरमेव विनष्टस्य युज्यते, किं पुनः कारकसंनिपातः ? इति नित्यानित्यात्मकः स्याद्वादोऽङ्गीकर्तव्यः । तथा तमन्तरेण सामानाधिकरण्यं विशेषणविशेष्यभावोऽपि नोपपद्यते। तथाहि भिन्नप्रवृत्ति-निमित्तयोरेकत्र वृत्तिः सामानाधिकरण्यम्, तयोश्चात्यन्तभेदे घट - पटयोरिव नैकत्र वृत्तिः। नाप्यत्यन्ताभेदे, भेदनिबन्धनत्वात् तस्य, नहि भवति नीलं नीलमिति । किञ्च, नीलशब्दादेव तदर्थप्रतिपत्तावुत्पलशब्दानर्थक्यप्रसङ्गः। तथैकं वस्तु सदेवेति नियम्यमाने विशेषण - विशेष्यभावाभावः । विशेषणाद् विशेष्यं कथञ्चिदर्थान्तरभूतमभ्युपगन्तव्यम्। अस्तित्वं चेह विशेषणम्, तस्य विशेष्यं वस्तु तदेव वा स्यादन्यदेव वा ? न तावत् तदेव, न हि तदेव तस्य विशेष्यं भवितुमर्हति असति च विशेष्ये विशेषणत्वमपि न स्याद्, विशेष्यं विशिष्यते येन तद्विशेषणमिति व्युत्पत्तेः । अथान्यत्, तर्ह्यन्यत्वाविशेषात् सर्वं सर्वस्य विशेषणम् । समवायात् प्रतिनियतो विशेषण - विशेष्यभाव इति चेद्, न - सोऽप्यविष्व ( पि ह्य) भावलक्षण एवैष्टव्यः, रूपान्तरपरिकल्पनायामनवस्थाप्रसङ्गः । न चासावत्यन्तभेदेऽभेदे वा संभवतीति भेदाभेदलक्षणस्याद्वादोऽकामेनाप्यभ्युपगन्तव्यः। आदिग्रहणात् स्वसंज्ञादयोऽपि । तथाहि - अकाराकारयोर्यदि साधर्म्यमेव स्यात्, तदाऽस्तित्वेनेवान्यैरपि धर्मैः साधर्म्यं सर्वमेकं प्रसज्येत। यदि च वैधर्म्यमेव, तदा कस्यचिदस्तित्वमपरस्य नास्तित्वमन्यस्य चान्यदिति तुल्यत्वाभाव इति । साधर्म्य - वैधर्म्यात्मकस्याद्वादसमाश्रयणे ह्रस्व-दीर्घयोः कालभेदेन वैधर्म्येऽपि तुल्यस्थानाऽऽस्यप्रयत्नत्वेन साधर्म्यमस्तीति स्वसंज्ञाव्यवहारः । किञ्च, शब्दानुशासनमिदम्, शब्दं प्रति च विप्रतिपद्यन्ते - नित्य इत्येके, अनित्य इत्यपरे, नित्यानित्य इति चान्ये । तत्र नित्यत्वानित्यत्वयोरन्यतरपक्षपरिग्रहे सर्वोपादेयत्वविरहः स्यादित्याह - सर्वपार्षदत्वाचेति-स्वेन रूपेण व्यवस्थितं वस्तुतत्त्वं पृणाति पालयति “प्रः सद्” (उणा० ८९७) इति सदि पर्षद्, पर्षदि साधु “पर्षदो ण्यणौ ” (७.१.१८) इति णे पार्षदं साधारणमित्यर्थः । अथवा पार्षदः परिचारक उच्यते, स च परिषत्साधारण इत्यर्थः। पार्षदत्वेन च साधारणत्वं लक्ष्यते, तेन सर्वेषां पार्षदं सर्वसाधारणमिति । (सकलदर्शन) दृश्यते एकदेशेन तत्त्वमेतैरिति दर्शनानि नयाः, समस्तानां दर्शनानां यः समुदायस्तत्साधारणस्याद्वादस्याभ्युपगमोऽतितरां निर्दोष इत्यर्थः । 11611 एतदेव स्वोक्तेन द्रढयति-अन्योन्येत्यादि - साध्यधर्मवैशिष्ट्येन पच्यते हेत्वादिभिर्व्यक्तीक्रियते " मा - वा- वदि० ” ( उणा० ५६४) इति से पक्षः-साध्यधर्मविशिष्टो धर्मी, 'ध्वनिरनित्य एव' इत्यादि (:) प्रतिकूलः पक्षः प्रतिपक्षः, अन्योन्यं पक्षस्य प्रतिपक्षास्तेषां भावः, एकस्मिन् धर्म्मिणि परस्परविरुद्धधर्मोपन्यास इति, ततः । यथेति दृष्टान्तोपन्यासे । परे भवच्छासनादन्ये । सातिशयो मत्सरोऽसहनताऽस्त्येषाम् अतिशायने मत्वर्थीये मत्सरिणः । प्रकर्षेणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थ एभिरिति “व्यञ्जनाद् घञ्” (५.३.१३२) इति घञि प्रवादाः प्रवचनानि । यथा परस्परविरोधात् परे प्रवादा मत्सरिणः, न तथा तव समयो मत्सरी । अत्र विशेषणद्वारेण हेतुमाह-पक्षपातीति, यतो रागनिमित्तवस्तुस्वीकाररूपं पक्षं पातयति नाशयतीत्येवंशीलः, रागस्य जीवनाशं नष्टत्वात्, अत्रैव हेतुमाह - नयानशेषानविशेषमिच्छन्निति-नयान् नैगमादीन् समस्तान् अविशेषमभेदं यथा भवति एवमङ्गीकुर्वन् न तव स (मयो) मत्सरी। अयं भावः - नयानां समत्वेन दर्शनाद् रागमयस्य पक्षस्य पातितत्वात् समयस्य मत्सराभावः परेषां विपर्ययाद् मत्सरसद्भाव इति। सम्यगेति गच्छति शब्दोऽर्थमनेनेति “पुन्नाम्नि०" (५.३.१३०) इति घे समयः सङ्कतः, तत्सामर्थ्यप्रवृत्तत्वात् सिद्धान्तः समयशब्देनाभिधीयते । यदुक्तम् “समयबलेन परोक्षानुभवसाधनमागमः" इति । यद्वा सम्यग् अयन्ति गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् स्वरूपे प्रतिष्ठां प्राप्नुवन्त्यस्मिन्निति समय आगमः । मत्सरित्वस्य विधेयत्वात् तेनैव नञः सम्बन्धात् पक्षपातिशब्देन त्वसम्बन्धात् प्रक्रमभेदाभावः।
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy