________________
परिशिष्ट-२
૩૬૧ समवायोऽविष्वाभावलक्षणः स एव सकलधर्माणामिति सम्बन्धेनापि तदभेदः । य एव चोपकारो वस्तुनो वस्तुत्वेन क्रियतेऽर्थक्रियासामर्थ्यलक्षणः, स एव सकलधर्मेरपीत्युपकारेणापि तदभेदः । यथा च वस्तुशब्दो वस्तुत्वं प्रतिपादयति, तथा सकलवस्तुधानपि, तैविना तस्य वस्तुत्वानुपपत्तेरिति शब्देनापि तदभेदः। पर्यायार्थिकप्राधान्ये तु परमार्थतः कालादिभिर्भेद एव, धर्म-धर्मिणोरभेदोपचारात् तु वस्तुशब्देन सकलधर्मविशिष्टस्य वस्तुनोऽभिधानात् सकलादेशो न विरुध्यते; ततः स्याद्वस्तु चेत्यादिशब्दस्तत्त्वमनेकान्तात्मकं प्रतिपादयतीति नानन्तरूपस्यापि वस्तुनो वाचकासम्भवः, सकलादेशवाक्येन तस्य तथा वक्तुं शक्यत्वात्। तच्च सप्तधा-यथा १ स्यादस्त्येव, (२ 'स्यानास्त्येव,) ३ स्यादवक्तव्यमेव, ४ स्यादस्ति नास्त्येव, ५ स्यादस्त्यवक्तव्यमेव, ६ स्यानास्त्यवक्तव्यमेव, ७ स्यादस्तिनास्त्यवक्तव्यमेवेति निरवशेषे जीवादितत्त्वार्थपर्याये भवति, "प्रतिपर्यायं सप्तभङ्गी" इति वचनात्। नन्वस्तित्वं प्रति विप्रतिपन्नमनसां तत्प्रत्यायनाय यथा स्यादस्त्येवेति पदं प्रयोगमर्हति, तथा स्यानास्त्येवेत्यादिपदान्यपि प्रयोगमहेयुः, सप्तधा वचनमार्गस्य
स्थापितत्वादिति। नैवम्-स्याच्छब्देनैव शेषाणां द्योतितत्वात्। यदा विधिविकल्पस्य प्रयोगस्तद्विवादविनिवृत्तये स्याद्वादिभिर्विधीयते, तदा निषेधादिविकल्पा: षडपि स्याच्छब्देन याता न पुनः प्रयोगमर्हन्ति, तदर्थे विवादाभावात्, तद्विवादे तु क्रमशस्तत्प्रयोगेऽपि न कश्चिद् दोषः। यतः-"प्रश्नवशादेकवस्तुनि दृष्टेष्टप्रमाणाविरोधेन विधि-प्रतिषेधकल्पना सप्तभङ्गी" इति, ततः स्यात्कारलाञ्छनमेवकारोपहितमर्थवत् सर्वत्र प्रतिपत्तव्यम्। “सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्ग:" (तत्त्वार्थसूत्रे अ०१. सू०१.) इत्यादिशास्त्रवाक्ये 'घटमानय' इत्यादिलोकवाक्ये च प्रतिपत्रभिप्रायवशात् सामर्थ्याद् वा तदवगतेः स्याच्छब्दैवकारयोः प्रयोगाभाव इति लोकशास्त्रविरोधोऽपि नास्ति।
___ "सदेव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात्" (आप्तमीमांसा-श्लो० १५)
इत्यादौ च “स्वरूपादिचतुष्टयाद्" इति वचनात् स्याच्छब्दार्थावगतेस्तदप्रयोगः। 'कथञ्चित् ते सदेवेष्टम्' इत्यादौ कथञ्चिदिति वचनात् तत्प्रयोगवदिति।
अमति गच्छति धर्मिणमित्यमे: “दम्यमि-तमि०" (उणा० २००) इति ते अन्तो धर्मः; न एकोऽनेकः, अनेकोऽन्तो यस्यासावनेकान्तः, तस्य वदनं तथात्वेन प्रतिपादनम्, तञ्च स्वाभ्युपगतस्यैव भवतीत्युक्तम्। नित्येत्यादि-“नेधूवे" (६.३.१७) (इति) त्यचि नित्यम्-उभयान्तापरिच्छिन्नसत्ताकं वस्तु, तद्विपरीतमनित्यम्। आदीयते गृह्यतेऽर्थोऽस्मादिति "उपसर्गाद् दः किः" (५.३.८७) इति को आदिः, तस्मात् सहभुवः सामान्यादयो धाः, क्रमभुवश्च नव-पुराणादयः पर्याया गृह्यन्ते। धारयति धर्मिरूपमधर्मितां प्रति यत् “अर्तीरिस्तु०" (उणा० ३३८) इति मे धर्मः-वस्तुपर्यायः, धर्ममन्तरेण धर्मिणः स्वरूपनाशात्। शाम्यति विरुद्धैर्धम्मयुगपत् परिणतिमुपयातीति “शमेर्व च वा" (उणा० ४७०) इत्यले शबलम्। एत्यभेदं गच्छति “भीण्-शलि०" (उणा० २१) इति के एकः । वसन्ति सामान्यपर्याय-विशेषरूपा धर्मा अस्मिनिति “वसेर्णिद्वा" (उणा० ७७४) इति तुनि वस्तु। नित्यानित्यादिनाऽनेकेन धर्मेण शबलं यदेकं वस्तु तस्याभ्युपगमः-प्रमाणाविरुद्धोऽङ्गीकारः, तत एव शब्दानां सिद्धिर्भवति, नान्यथा, अत
आह-एकस्यैवेति-तथाहि-यस्यैव वर्णस्य ह्रस्वत्वं विधीयते तस्यैव दीर्घत्वादिः, तस्य च सर्वात्मना नित्यत्वे पूर्वधर्मनिवृत्तिपूर्वकस्य हस्वादिविधेरसम्भवः; एवमनित्यत्वेऽपि जननानन्तरमेव विनाशात् कस्य हस्वादिविधिरिति सामान्यात्मना नित्यः, हस्वादिधात्मना चानित्य इति। तथा द्रव्याणां स्व-पराश्रयसमवेतक्रियानिवर्तकं सामर्थ्य कारकम्, तञ्च काद्यनेकप्रकारमभित्रस्याप्युपलभ्यते; यथा-पीयमानं मधु मदयति, वृक्षमारुह्य ततः फलान्यवचिनोति, विषयेभ्यो बिभ्यदनात्मज्ञस्तेभ्य एवात्मानं प्रयच्छंस्तैरेव बन्धमाप्रोतीत्यादि, तञ्च कथमेकस्य सर्वथा नित्यत्वे एकरूपां वृत्तिमवलम्बमानस्यावस्थान्तराभिव्यक्तरूपोपलम्भाऽभावाद् घटते? इति साध्य-साधनरूपकारकव्यवहारविलोपः। अनित्यत्वेऽपि न घटते, तथाहि-स्वातन्त्र्यं कर्तृत्वम्, तञ्च-
- - - - - - - - - - - - १. अयं पाठः पुस्तकेषु नास्ति, अर्थमनुसंधाय प्रक्षिप्तः।
-
-
-
-
-
-
-
-
-
-