SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ૩૫૭ इत्युक्ते(क्ते:) तथैव दर्शनत्वे(नाञ्च), न हि क्रियाविरहिता एवमेवोदासीनाः फलानि समश्रुवते; यच्चादृष्टात् पुण्यविशेषादखिलं फलं तस्य सङ्कल्पः, शेषं पूर्ववत्। त्रिविधं हि फलम्-किञ्चित् क्रियाजं मनुष्यादीनां व्यापारविशेषात् कृषि-पाशुपाल्य-राज्यादि, किञ्चिद्धि पुण्यादेव व्यापाराभावशालिनां कल्पातीतदेवानाम्, किञ्चिदुभयजं व्यन्तरादीनाम्। यदिवा दृष्टानां प्रत्यक्षेणोपलब्धानां मनुजादीनामदृष्टानां चानुमानगम्यानामखिला ये फले सम्पूर्णाः कल्पा एकहेलयैव समुदिता ईषदूनास्ते (ते)षां कल्पो वा विधानं स एव प्रसरणशीलत्वेन द्रुमः-पादपः स उपसामीप्येन मीयते परिच्छिद्यतेऽनेनेति, एवं हि तस्य परिच्छेदो भवति-योकहेलयैव तत्सङ्कल्पानां सम्पादनं भवति, तत्समर्थं चेदं बीजमिति माहात्म्यविशेषश्चान्येभ्यो महामन्त्रेभ्योऽस्य मन्त्रराजस्यानेन विशेषणेन ख्याप्यते। स्वरूपा-ऽर्थ-तात्पर्यः स्वरूपमुक्त्वा प्रकृते योजयति-आशास्त्राध्ययनाध्यापनावधि प्रणिधेयमिति-'आङ् अभिव्याप्तौ', स च शास्त्रेण सम्बध्यते, अध्ययना-ऽध्यापनाभ्यां सम्बद्धोऽवधिर्मर्यादार्थः । तेनायमर्थः-शास्त्रमभिव्याप्य येऽध्ययनाऽध्यापने ते मर्यादीकृत्य प्रणिधेयमित्यर्थः । प्रणिधानं व्याचष्टे-प्रणिधानं चेत्यादिना-अनुवादमन्तरेण स्वरूपस्य व्याख्यातुमशक्यत्वात् प्रणिधानं चेति स्वरूपमनूदितम्, पुनरर्थ-चशब्दनिर्देशाद्। अनेनेति-अहमिति बीजेन । प्रणिधानस्य च सम्भेदाभेदरूपेण वैविध्यादादौ सम्भेदरूपमाह -सर्वतः सम्भेदः-संश्लिष्टः सम्बद्धो वाऽहंकारेण सह ध्यायकस्य भेदः संभेदः, आत्मानं बीजमध्ये न्यस्तं चिन्तयेद्; एवं च ध्येय-ध्यायकयोः सर्वतः संश्लेषरूपः सम्बन्धरूपश्च भेदो भवति। न च महामन्त्रस्य सकलार्थक्रियाकारित्वेन मन्त्रराजत्वान्मण्डलवर्णादिभेदेनाकर्षणस्तम्भ-मोहाद्यनेकार्थजनकत्वाद् गमनागमनादिरूपत्वेन सम्भेदासम्भवादनैकान्तिकत्वाल्लक्षणाभावो वाच्यः, यतस्तत्र साध्यस्यात्मनोऽन्यत्रात्मी'यात्मन इति विशेषणादिति। तथा (तदभिधेयेनेत्यादि-) तस्याहमित्यक्षरस्य यदभिधेयं परमेष्ठिलक्षणं तेनात्मनोऽभेद एकीभावः। तथाहि-केवलज्ञानभास्वता प्रकाशितसकलपदार्थसार्थं चतुस्त्रिंशदतिशयैर्विज्ञातमाहात्म्यविशेषमष्टप्रातिहार्यविभूषितदिग्वलयं ध्यानाग्निना निर्दग्धकर्ममलकलङ्कं ज्योतीरूपं सर्वोपनिषद्भूतं प्रथमपरमेष्ठिनमर्हट्टारकं आत्मना सहाभेदीकृतं "स्वयं देवो भूत्वा देवं ध्यायेद्" इति यत् सर्वतो ध्यानं तदभेदप्रणिधानमिति। अस्यैव विघ्नापोहे दृष्टसामर्थ्यादन्यस्य तथाविधसामर्थ्यस्याविकलस्यासम्भवात् तात्त्विकत्वादात्मनोऽप्येतदेव प्रणिधेयं वयमपीत्यादिना दर्शयति-विशिष्टप्रणिधेय-प्रणिधानादिगुणप्रकर्षादात्मन्युत्कर्षाधानाद् गुणबहुत्वेनात्मनोऽपि तदभिन्नतया बहुत्वाद् वयमिति बहुवचनेन निर्देशः। अवयवव्याख्यामात्रमुक्तम्, विशेष व्याख्यानस्वरूपं समयाद् गुरुमुखात्(वा) पुरुषविशेषेण ज्ञेयमिति ।।१।। ल.न्यास- "प्रणम्य केवलालोकावलोकितजगत्त्रयम्। जिनेशं श्रीसिद्धहेमचन्द्रशब्दानुशासने" ॥१॥ ___ "शब्दविद्याविदां वन्द्योदयचन्द्रोपदेशतः । न्यासतः कतिचिदुर्गपदव्याख्याऽभिधीयते" ॥२॥ प्रणम्येत्यादि-इह निःशेषशेमुषीसमुन्मेषनिर्मितानेकविद्वज्जनमनश्चमत्कारकारिशास्त्रनिकरविस्मापितविशदप्रद्धिमहाद्धिकानेकसूरिः निष्प्रतिमप्रतिभासंभारापहस्तितत्रिदशसूरिः श्रीकुमारपालक्ष्मापालप्रतिबोधविधाननिखिलक्षोणिमण्डलाभयप्रदानप्रभृतिसंख्यातिक्रान्तप्रभावनानिर्माणस्मृतिगोचरसंचरिष्णूकृतचिरन्तनवरस्वाम्यादेप्रवरसूरिः सुगृहीतनामधेयः श्रोहेमचन्द्रसूरिर्निबिडजडिमग्रस्तं समस्तमपि विश्वमवलोक्य तदनुकम्पापरीतचेताः शब्दानुशासनं कर्तुकामः प्रथमं मङ्गलार्थमभिधेयादिप्रतिपादनार्थ चेष्टदेवतानमस्कारमाह-प्रणम्येति-ननु प्रयोगोऽयं भावे कर्मणि वा? उच्यते- भावे एव। तर्हि कथं परमात्मानमिति कर्म? उच्यते "सकर्मकाणामुत्पन्नस्त्यादि वविवक्षया। अपाकरोति कर्मार्थं स्वभावान पुनः कृतः" ॥३॥ | 'विधानतः एव' इत्यपि पाठोऽस्ति। 'त्रात्मनीया०' इति पाठान्तरम्। २.
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy