SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન 1 मन्त्रकल्पे हि मन्त्रवर्णानां वाचकत्वेन कीर्तनाद् वाचकमित्युक्तम् । यथा 'अ-सि-आ-उ-सा' इति बीजपञ्चकं पञ्चानामर्हदादीनाम्, ड-र-ल-क-श' - ह-यमिति आधारादिसप्तदेवीनाम्, तथा अकारादिभिः षोडशस्वरैर्मण्डलेषु षोडश रोहिण्याद्या देवता अभिधीयन्ते, ततस्तासां प्रतीतेरिति । तात्पर्यस्य चाभिधानपृष्ठभावित्वात् सिद्धचक्रस्यादिबीजमित्यादिना पश्चादुच्यते । समयप्रसिद्धस्य चक्रविशेषस्य निरूढमभिधानम् । यद्वा सिध्यन्ति निष्ठितार्था भवन्ति लोकव्यापिसमये कलारहितमिदमेव तत्त्वं ध्यायन्तोऽस्मादिति “बहुलम्” (५.१.२) इति क्ते ततो विशेषणसमासे सिद्धचक्रम् । एतच्च तत्र तत्र व्यवस्थितपरमाक्षरध्यानाद् “योगद्धिप्राप्तास्त् सिद्धिः" इत्युच्यते इति सूपपादं सिद्धत्वमस्य चक्रस्येति । तस्येदमर्हंकारं प्रथमं बीजम्, बीजसाधर्म्याद् बीजम् । यथाहि - बीजं प्रसवप्ररोह-फलानि प्रसूते, तथेदमपि पुण्यादिप्ररोह-भुक्ति-मुक्तिफलजनकत्वाद् बीजमित्युच्यते । सन्ति पञ्चान्यान्यपि हाँकारादीनि बीजानि तदपेक्षयाऽस्य प्राथम्यम्, प्रथमं साधूनामितिवत् प्रथममग्रणीभूतं व्यापकमित्यर्थः । व्यापकत्वं चास्य सर्वबीजमयत्वात्, इदमेव हि बीजम्, 'अधोरेफ-आ-ई-ऊ-ओ- अं अः' एतैर्युक्तं बीजं भवतीति व्यापकत्वमस्य । यदिवा परसमयसिद्धानां त्रैलोक्यविजयाघण्टार्गल-स्वाधिष्ठान-प्रत्यङ्गिरादीनां चक्राणामिदमेव हकारलक्षणं प्रधानं बीजमिति । अथवा अकारादि-क्षकारान्तानां पञ्चाशतः सिद्धत्वेन प्रसिद्धानां यच्चक्रं समुदायस्तस्य प्रधानमिदमेव बीजम् । पुनर्विशेषणद्वारेण तस्यैव प्राधान्यमाह-सकलागमोपनिषद्भूतम् –सकलस्य द्वादशाङ्गस्य गणिपिटकरूपस्यैहिकामुष्मिकफलप्रदस्याऽऽगमस्योपनिषद्भूतं रहस्यभूतम्, पञ्चानां परमेष्ठिनां यानि 'अ'सि-आ-उ-सा' लक्षणानि पञ्च बीजानि यानि च अरिहन्तादिषोडशाक्षराणि तान्येव द्वादशाङ्गस्योपनिषदिति । यदाह पञ्चपरमेष्ठिस्तुतौ"सोलसप' रमक्खरबी अबिंदुगब्भो जगुत्तमो जो उ। सुअबारसंगबाहिरमहत्थपुव्वत्थपरमत्थो" ।।७।। यदिवा सकला ये आगमाः पूर्व-पश्चिमाम्नायरूपास्तेष्वपि परमेश्वरपरमेष्ठिवाचकमर्हमिति तत्त्वमुपनिषद्रूपेण प्रणिधीयते इति, सकलानां स्वसमय-परसमयरूपाणामागमानामुपनिषद्भूतं भवतीति फलार्थिनां सेवाप्रवृत्त्यङ्गभूतां योगक्षेमशालितामस्योपदर्शयन् लब्धपरिपालनमन्तरेणालब्धलाभस्याकिञ्चित्करत्वात् क्षेमोपदर्शनपूर्वकं योगमुपदर्शयति-अशेषविघ्नविघातनिघ्नमखिलदृष्टादृष्टफलसंकल्पकल्पद्रुमोपममित्यनेनेति - (अशेषा:-) कृत्स्ना ये विघ्नाः सत्क्रियाव्याघातहेतवस्तेषां विशेषेण हननं समूलकाषं कषणम्, तथाऽसौ विघ्नान् विहन्ति यथैते न पुनः प्रादुःषन्ति, विशब्देन घातविशेषणाच्चायमर्थलाभः, अशेषशब्देन तद्विशेषणाद् वेति, तत्र (निघ्नम्-) परवशम्। यथा मदजलधौतगण्डस्थलो मदपारवश्यादगणितस्वपरविभागो गजः समूलवृक्षाद्युन्मूलने लम्पटो भवति, एवमयमपि परमाक्षरमहामन्त्रो ध्यानावेशविवशीकृतो विघ्नोन्मूलने प्रभविष्णुर्भवति । तथा (अखिलेत्यादि - ) अखिलानि संपूर्णानि यानि दृष्टानि च चक्रवर्तित्वादीनि वादृष्टानि स्वर्गापवर्गरूपाणि फलानि तेषां संकल्पे संपादने कल्पवृक्षेणोपमीयते यत् तत् तथा । व्यवहारसंदृष्ट्याऽयमुपमानोपमेयभावः, लोके तस्य कल्पितफलदातृत्वेन प्रसिद्धत्वात्, अस्य तु सङ्कल्पातीतफलप्रदायित्वात् । यद्वा दृष्टात् क्रियाविशेषाद् यत् फलम्— "क्रियैव फलदा पुंसाम्" (स्याद्वादरत्नाकरे पृ. ११०६.) ૩૫૬ १. २. ३. ४. ५. ६. ७. '०क-स-ह०' इति पाठान्तरम् । आधारादिसप्तदेव्यो डाकिनी- राकिनी-लाकिनी काकिनी शाकिनी - हाकिनी याकिनीरूपाः । 'प्राप्तावस्मात्' इति पाठान्तरम् । '० स्वधिष्ठान०' इति पाठोऽपि वर्तते । '०नां च तत्सङ्ख्यानां स०' इति पाठान्तरम् । 'अरिहन्त-सिद्ध-आयरिय-उवज्झाय - साहू' इति योगशास्त्रटीकायाम् । षोडशपरमाक्षरबीजबिन्दुगर्भः जगदुत्तमो यस्तु । श्रुतद्वादशाङ्गबाह्यमहार्थपूर्वार्थपरमार्थः । ।
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy