SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ ७४२ घ्याश्रयमहाकाव्ये [कर्णराजः] सखी । तथानयास्मत्सख्योवलं निष्कलङ्कं कदम्बकुलं कदम्बाख्यवंशो द्योतयामाहे स्त्रीरत्नत्वेनाशोभ्यत ॥ दक्षिणा द्योतयामासे येन योब्धिमधुक्षन । अदिग्धादुग्ध गां तस्य पुत्रीयं जयकेशिनः ॥ १५४ ॥ १५४. तस्य जयकेशिनो राज्ञ इयं कन्या पुत्री येन दक्षिणा दिग् द्योतयामासे स्वामित्वेनाशोभ्यत तथा योब्धिमधुक्षत प्रभुत्वादनान्यक्षारयत्ताँ यो गां पृथ्वीम दिग्ध दिह उपचय इत्येके । न्यायपालनेनोप. चितीचक्रे तथादुग्ध रत्नान्यक्षारयच्च । अदृष्टेष्टवरा नान्नमलीहाघुक्षताशयम् । न्यगूढाकारमेषा को न यथा समधिक्षत ॥ १५५ ॥ १५५. एषा कन्या दृष्टेष्टवरा सती तथान्नं नालीढ नाभुक्त तथैपाशयमिष्टवराप्राप्त्यसमाहितं चित्तं तथा महाकटेनाधुक्षत संवृतवती । तथैषाकारमिष्टवराप्राप्तिदुःखोद्भवं मुखविकारादि तथातिकष्टेन न्यगूढ यथा को न समधिक्षत न संदिग्धवान् । किं तु सर्वोप्येवंविधावस्थासौ किं जीविष्यति न वेति संदेहे पपातेत्यर्थः ॥ नैषालिक्षत यत्तन्नालिक्षातां पितरावपि । मुखेदरिद्रीत्वजनोदरिद्रासीत्सखीजनः ॥ १५६ ॥ १५६. यद्यस्मादेषा कन्या नालिझत नाभुक्त तत्तस्माद्धेतो: पितरा १ए अदुग्धा'. २ बी म् । न्यंगू. ३ ए °क्षता ॥. ४ डी जनाः ॥. १एमास्यवं. २ ए राज ३ ए योश्चिम . ४ बीथा पृ. ५ डी चितां च. १५ पाते'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy