SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ ७३२ व्याश्रयमहाकाव्ये [ कर्णराजः ] मेवेत्यर्थः । अत एव यैराजौ रणे क्रीडा रेणकेलिरैकामि च वाञ्छितारामि च युद्धेनाजौ क्रीडितं च रणे यैर्निर्व्यूढमित्यर्थः । तान् गजान्स कर्णोविरामको दर्शनादनिवर्तमानः सन्नपश्यद्यतो जयश्रीकामुकः ॥ व्यायामच्छेदकामेन तेनागामि लतागृहे । हैष्टा चागामुका श्रीर्नु काप्यायामकचक्षुषा ।। १३४ ॥ १३४. तेन कर्णेन लतागृहेगामि गतं यतो व्यायामच्छेदकामेन खेदापनोदेच्छुना । तत्र च कापि नायिका श्रीर्नु रूपाद्यतिशयेन लक्ष्मीरिवागामुकागच्छन्ती तेन दृष्टा च । कीदृशा सता । आयामके तद्दर्शनाद्विशेषेण दीर्घीभवन्ती चक्षुषी यस्य तेन ॥ नानाम्यायामि हर्षाम्भोवाम्याचामि सुधेव च । उन्नामिकाभ्रुवस्तस्य दृशा निर्नामपक्ष्मणा ।। १३५ ॥ ५ १३५. तस्य कर्णस्य दृशाक्ष्णा नानामि न नीचैर्भूतम् । कीदृशस्य सत: । उन्नामिके अद्भुतरूपदर्शनेन विस्मेत्वादुन्नमन्यावूर्ध्वोभवन्त्यौ भ्रुवौ यस्य तस्य । यतः किंभूतया । रूपदर्शन भङ्गभयान्निर्नामानि निर्नमनानि निमीलनरहितानीत्यर्थः । पक्ष्माणि यस्यास्तया । त्वायामि दीर्घीभूतम् । तथा हर्षाम् आनन्दाश्रुं । अवामि च क्षैरितं च यतः सुधेवाचामि सुखेदरूपावलोकनेनामृतमिवास्वादितम् ॥ १ बी च्छेदिका २ ए लगा गृ० ३ ए डी दृष्ट्वा चा°. . ४ ए कर्णौवि. डी 'स्तथा । किं. ११ ए क्षरतं. {C 'ang°. २ सी डी रणे के". ३ ई ५ बी के उद्भु. ६ए रत्यादुन्नर्मत्यावू. ७ बी सी ८ई किं त्वया . ९भयान". १० सी डी 'श्रु | आचामि १२ ए "खहरू".
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy