SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ३८ व्याश्रयमहाकाव्ये [ मूलराजः ] तास्तथा पुंस्कामा अप्यपुंश्चल्यः । पुमांसं कामयन्ते पुंस्कामाः । पुमांसं चलयन्ति पुंश्चल्यः कुलटाः । न तथापुंश्चल्यः सत्यः । अपिर्विरोधे । पुंमात्रकामनविवक्षया विरोधः । अविरोधस्तु स्वपतेरेव कामनविवक्षया । अत एवापुंश्चल्यः । किंभूतैर्भर्तृभिः । पुंश्छेकैः पुरुषेषु विद्ग्धैः । तथापुंस्खेटैः। खेटा अधमाः । पुंमांसो ये खेटाः पुंस्खेटा: । न तथापुंस्खेटास्तैः । परदारसेवादिनिन्द्यकर्मरहितैरित्यर्थः । अतएवापुंश्छन्नैः न पुंसान्येन पुरुषेणाच्छादितैः । विद्वत्तया सदाचारतयां च सर्वपुरुषेषु मुख्यैरित्यर्थः । भवति ह्युत्तमगुणानां दंपतीनां संबन्ध: शोभातिशयहेतुः ॥ न पुंष्टिट्टिभ चौरा न च पुंस्खल पुंष्ठकाः । न पुंस्फल्गुर्न पुंस्फेरुर्न पुंस्पशुरिह कचित् ॥ ५२ ॥ I ५२. टिट्टिभा उत्पादशयनाः पक्षिभेदाः । पुमांसष्टिट्टिभा इवोद्धतत्वात् पुंष्टिट्टिभाः । तथा पुमांसश्च ते चौराश्च पुंश्चराः । द्वन्द्वे । पुंष्टिट्टि - मौराः । इह पुरे कचित्कस्मिन्नपि स्थाने न सन्तीति संटङ्कः । एवं सर्वत्रास्तिक्रिया नञा सह योज्या । खला दुर्जनाः । पुमांसश्च ते खलाश्चै पुंस्खलाः। एवं पुंष्ठर्का: पुंश्छलकाः । ततो द्वन्द्व: । तथा पुंसु फल्गुः पुमर्थविकलत्वेन निष्फलः पुंस्फल्गुः । तथा पुमान् फेरुरिब भीरुत्वात् शृगाल इव पुंस्फेरुः । तथा पुमान् पशुरिव मूर्खत्वात् पुंस्पशुः ॥ पु॒स्पृ॒ष्ठैः पुंस्तमैः पुंस्त्वपुंख्यातैः सह सौहृदम् । पुंष्ठकुराः सपुंस्थट्टाः पुंगवा अत्र कुर्वते ।। ५३ ।। १ बी सी डी है: पुंस्त्वपुंख्यातैः पुंस्तमैः स. १ए पुंमान्काम बी पुंसोत्र. २ ए बी 'टा पुं. सी 'टा न. ३ बी या स°. ४ एफ् त्रापि क्रि . ५ सी डी 'श्व ए° ६ सी कास्ततो. ७ ए सी डी एफ पुंस्सुफ ८ डी एफू निःफल:. •
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy