SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ [ है ० १.३.८. ] प्रथमः सर्गः । कार्मुकं धनुर्यस्य स निरन्तरं धनुरास्फालयन्नित्यर्थः । एतेन धनुर्विद्याकौशलोक्तिः । तथा पराम् शत्रूंश्छ्यन् विनाशयन् । एतेन बलिष्ठत्वोक्तिः ।। अङ्गान्यस्मिँस्थुइँष्ठाभकुचो भाति वधूजनः । प्रशाश्चरन् त्सरुकोपि कोपि नैवात्र दारुणः ॥ ५० ॥ ३७ ५०. अस्मिन्पुरे ठाभौ ठकारवद्वृत्तौ कुचौ स्तनौ यस्य स वधूजन: कुलाङ्गनालोकोङ्गानि स्तनादीनवयवांस्थुडनुत्तरीयादिना संवृण्वन् सन् भाति । कुलाङ्गनानां हि सर्वाङ्गोपाङ्गसंगोपनं शोभातिशयहेतुः । तयत्र त्सरौ खङ्गादिमुष्टौ कुशल: “कुशले” [६. ३. ९५.] इति के त्सरुकोपि खङ्गादिशस्त्रभृद्भटलोकोपि । आस्तां वणिगादिरित्यपेरर्थः । प्रशौनुपशान्तः संश्चरन्नस्ति । विचरतीत्यर्थः । अतश्चात्र कोपि नैव दारुणो रौद्रः । एतेनात्र राजाज्ञाया अतिसौष्ठवँमुक्तम् ॥ व्रजंश्चारु । प्राणश्चरन् । वहंश्छायाम् । पराँम्छन् । कुर्वेष्टल । चष्टङ्कारि । मस्मिष्ठकः । स्थुइँष्ठाभ । गायंस्तारम् । अस्मिँस्नायकः । जानंस्थूत्क । अस्मिँस्थुडन् । इत्यत्र “नोप्रशन” [ ८ ] इत्यादिना शषसा अनुस्वारानुनासिकौ च पूर्वस्य ॥ अप्रशान इति किम् । प्रशाञ्चरन् । अधुपर इति किम् । चरन् त्सरुकः ॥ पुंस्कामा अप्यपुंश्चल्य इह पुंस्कोकिलस्वनाः । अपुंश्छन्नैरपुंस्खेटैः पुंश्छेकैर्भान्ति भर्तृभिः ॥ ५१ ॥ ५१. इह पुरे स्त्रियो भर्तृभिः सह भान्ति । कीदृश्यः । कोकिलः परपुष्टः । पुमांश्चासौ कोकिलश्च पुंस्कोकिलस्तस्येव स्वनः स्वरो यासां १ एफ् न् मा'. २ एफ् था त्स. ३ सी डी 'खतरा'. ४ डी त्यर्थः ।. ५ ए एफ शान्नुप. ६ सी डी संचर ७ सी डी वत्वमु. ८ सी डी 'शानो इ. एफ् 'शाने इ.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy