SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । ब्रह्मादीनां त्वमन्तादी तवाद्यन्तौ न कश्चन । .. अग्नीषोमो वायुतोयाद्याश्व ते तिलमाषवत् ।। १३७ ॥ [ है० ३.१.१५७.] ४३७ १३७. ब्रह्मादीनामादिपदाद्विष्ण्वादीनामन्तादी संहारांत्सर्जनाच निधनोत्पत्तिकारणं त्वम् । यदुक्तम् । ब्रह्मादीनपि भगवंस्त्वमेव संसृजसि संहरसि चैव । इति । तत्र त्वाद्यन्तावुत्पत्तिविनाशहेतुरनादिनिधनत्वान्न कश्चन । उक्तं च । अनादिनिधनं देवं जगत्कारणमीश्वरम् । इति ॥ अतश्चाग्नीषोमौ वह्निदेवतासोमदेवते वायुतोयाद्याश्च वायुदेवतजलदेवतायाश्चाद्यपदाद्भूदेवतादयश्च ते तब तिलमात्रवत्तिलमाषा इवास्पास्त्वदंशमात्रमित्यर्थः ॥ स्कन्दश्रीदसुतेसखे त्यक्त्वा सखिसुतादिकम् । यस्त्वां ध्यायेत्रिलोक्यां स्यादस्त्रशस्त्रैः स दुर्जयः ॥१३८॥ १३८. स्कन्दश्रीदौ कार्तिकेयधनदौ सुतसखायौ यस्य हे स्कन्दश्रीदसुतसखे हे शंभो सखिसुतादिकमादिपदाद्भार्यादिकं संसारबन्धनं त्यक्त्वा यस्त्वां ध्यायेत्स नरखिलोक्यामस्त्राण्यामेयादीनि दिव्यायुधानि शस्त्राणि खङ्गादीनि द्वन्द्वे तैर्दुर्जयः स्यात् । केनाप्यसौ न जीयेवेत्यर्थः ॥ १ सी नांदीत २ ए सी डी 'तसुखे. १ ए सी 'रास्रर्ज. १ ए सी डी 'ताबा'. तदे'. ५ बी "तसुखा, डी ६ सीन्धनेत्य.. ३ बी द्या. ४ ए सी ७ सी नाप्यसौ.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy