SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ [है• ३.१.१५०.] पञ्चमः सर्गः । ४३३ सुखयातान्यतीन्यातमुखान्विप्रांश्च भूपतिः । दुःखहीनो हीनदुःखान्यथावत्संस्थया व्यधात् ॥ १३१॥ १३१. भूपतिर्मूलराजो हीनमपगतं दुःखं यस्मात्स तथा सन्संस्थया व्यवस्थया व्यधात् । कांस्कानित्याह । यातं प्राप्तं सुखं दैत्यवधोत्थं शर्म यैस्तान्सुखयातान्यतींस्तथा यातसुखान्विप्रांश्चोभयानपि यातसुखत्वेन हीनदुःखान् । कथं व्यधात् । यथावद्यः प्रकारो यर्थों यथास्यास्ति "तदस्य" [७.२.१.] इत्यादिना मतुः। यद्वा यथेत्येतस्याहं "तस्याहे" [७.१.५१] इत्यादिना वत् । क्रियाविशेषणं यथाविधीत्यर्थः ॥ गवाश्वेन । उष्ट्रखरेण । इत्यत्र "गवाश्वादिः" [१४४] इति द्वन्द्व एकार्थः ॥ दधिपयसोः । मधुसर्पिषोः । अत्र "न दधि' [३४५] इत्यादिना न द्वन्द्वै. कस्वम् ॥ पद्भिर्गोमहिषैः । इत्यत्र "संख्याने" [१४६] इति न द्वन्द्वैकत्वम् ॥ उपदशम् नागाश्वम् । उपदशैः नागाश्वैः । अत्र "वान्तिके" [१४७] इति वा इन्द्वैकत्वम् ॥ भासबदशान् । इत्यत्र "प्रथमोकं प्राक्" [१४८] इति प्रथमान्तेन यदि दिष्टं तत्पूर्व निपतति ॥ राजदन्तः । लिप्तवासित । इत्यत्र "राजदन्तादिषु" [१४९] इत्यप्राप्तपूर्वनिपातं प्रानिपतति ॥ विशेषण । उष्णगुंश्रीः ॥ सर्वादि । सर्वसारेण ॥ संख्या । पडुनतः । इत्यत्र "विशेषण" [१५०] इत्यादिना विशेषणादेः पूर्वनिपातः ॥ शब्दस्य स्पर्धे पर १एडीनो दीन'. १ बी तान्य. २ ए सी डी नभिया'. ३ डी प्यायः. ४ सी डी यास्या'. ५ सी त्वम् 'उप. ६डी पति।. ७ ए सी डी 'गुश्रीस'. ८सी दस्प.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy