SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४३२ व्याश्रयमहाकाव्ये [ मूलराजः ] इत्याह । यतः कृत उम्रो मारणात्मको रिपोर्लक्षस्य निग्रहो येन तस्मिन् ॥ ग्राहारिं सोमुचत्कृत्ताङ्गुलीकं भिक्षितः पतिम् । तस्य पाणिगृहीतीभिर्वालैर्गृहीतपाणिभिः ॥ १२९ ॥ १२९. स मूलराजो ग्राहारिममुचत् । कीदृशं सन्तम् । कृत्ता छिन्नाङ्गुल्यर्थात्कनिष्ठा येन यद्वाङ्गुल्यां कृत्तं येन तं स्ववेलायत्तं कृत्वेत्यर्थः । यतो बालैः कर्तृभिर्गृहीतपाणिभिरात्तहस्ताभिः सतीभिर्मूलराजस्य कृपातिरेकोत्पादनाय बालकान्हस्तेषु गृहीत्वेत्यर्थः । तस्य प्रा 3 भु '4 हारेः पाणिगृहीतीभिर्भार्याभिः पतिं भर्तारं भक्षितोस्मभ्यं पतिभिक्षां देहीति याचितः ॥ ततः प्रभृति सौराष्ट्रैः खीवेपो जातजन्मभिः । अजन्मजातैश्वोपात्तः प्राह राजिभुवो यशः ॥ १३० ॥ १३० ततः प्रभृति तस्मान्मोक्षदिनादारभ्य स्त्रीवेष आप्रपदीनशाटिका परिधान कच्छादानाभावलक्षणो नारीवेषो राजिभुवो मूलराजस्य यः सौराष्ट्रजयोत्थां कीर्ति प्राह । संप्रत्यपि ज्ञापयतीत्यर्थः । कीदृक् । सौराष्ट्रैः सुराष्ट्रादेशोद्भवैर्लोकैरुपान्तो वयं मूलराजस्य पुर: स्त्रीकल्पा इति ज्ञापनाय गृहीतः । कीदृशैः । जातर्जन्मभिः । जन्मशब्दोत्र जन्मप्रभृतिजीवितकालवाची । जातं बाल्ययौवनवार्धक्यावस्थात्रयोपभोगेन कृतकृत्यत्वान्निष्पन्नं परिपूर्णीभूतं जन्मे जन्मवारो येषां तैरतिवृद्धैरित्यर्थः । तथा न जातं वार्धक्यानुपभोगेनाकृतार्थत्वादपरिपूर्णीभूतं जन्म येषां तैश्च बालैस्तरुणैश्चेत्यर्थः ॥ · १ ए सी कृत्वा छि.. २ सी 'ही'. ३ ५ ए सी डी हीभि° ६ बी 'शः सुरा 'जम्मश ९ डी न्मवा. • सी 'तिरोको'. ४ बी 'णिर्गृही ७ ए सी 'बैलोकै. ८ सी
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy