SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ [है• १.२.१३.] प्रथमः सर्गः । स्वैरिस्मराक्षौहिणीनां स्वैरस्त्रीणामभावतः। इहैव धर्मः सोयेव त्रेतात्रेति वितळते ॥ १८ ॥ १८. इहैवाणहिलपाटक एव नान्यदेशेषु धर्मोस्तीति तथात्र पत्तनेघेवाद्यापि कलिकालेपि स स्त्रीमहासतीत्वादिधर्मप्रधानत्वेन प्रसिद्धस्त्रेता द्वितीययुगमस्तीति च लोकैर्वितय॑ते । इतिर्वाक्यसमाप्त्यर्थ उभयत्रापि योज्यः । कुतः । अभावतोभावात् । कासाम् । स्वैरखीणाम् । स्व आत्मीयः स्वेच्छाकृत ईर आसाम् । यद्वा । स्वेनात्मना नै तु श्वशुराधनुज्ञयेरन्ति ईरते वा विचरन्ति "नाम्युपान्त्य" [५.१.५४.] इत्यादिना के खैरा याः लियस्तासां कुलटानाम्। किंभूतानाम् । स्वयमीरितुं शीलमस्य स्खैरी स्वतत्रो यः स्मरः कामस्तस्याक्षौहिण्य इव दुःसाध्यानां कामविपक्षाणां मुनीनामपि रूपलावण्यलीलाकटाक्षविक्षेपादिशलैः साधकत्वात्सेनाविशेषा इवें याः । यद्वा । स्वैरिण्यो याः स्मराक्षौहिण्यस्ता इव याः । तासाम् ।। स्वैर । स्वैरि । अक्षौहिणीनाम् । इत्यत्र “खैरबैरि" [१५] इत्याविना ऐदौतौ ॥ यदा तु स्वैरिण्यश्च ताः स्मराक्षौहिण्यश्चेति समासस्तदा स्वैरिण्य इ. त्यत्र "नामग्रहणे लिविशिष्टस्यापि" [न्या सू० १६] ग्रहणमिति न्यायादैत् ॥ अयेव । इत्यत्र "अनियोगे लुगेवे" [१६] इस्पस्य लुक् ॥ नियोगे तु इहैव धर्मः॥ नौतुनेत्रा न वृद्धोतुकूरा नाभौतुलम्पटाः । न दीर्घोष्ठा न इस्खौष्ठा नौष्ठस्थूला इह खियः ॥ १९ ॥ १९. सुगमः । नवरं नौतुनेत्रा: न मार्जारवत्कपिलरौद्राक्ष्यः । न च वृद्धोतुवत्क्रूगशयाः । न च बालौतुवल्लम्पटाः । तथा स्थूलशब्दोत्र गुण १ सी एफ ति वाक्य'. २ एफ यस्वे'. ३ बी सी न ब. ४ एव । य. ५ सी डी स्वैरण्य. - - - - -
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy