SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४१२ व्याभयमहाकाव्ये (मूलराजः] युवतयस्तरुण्यः । कर्मधारयगर्भो इन्दः। यथेभ्यपोटा इभ्ययुवतयश्च तयोर्दूरे तस्थुः । हस्तिन्योपि शूरत्वायुद्धे वथा नोपयुज्यन्त इति रणादूरे तिष्ठन्ति ॥ गोगृष्टिगोबष्कयिणीगोवेहगोवशा इव । तो भूगोधेनुगोपालावयोन मजघ्नतुः ॥९०॥ ९०. तौ मूलराजग्राहारी अयोद्धन्त्रणकौतुकालोक्यादिलोकान्न प्रजन्नतुः । गोगृष्टिगोबष्कयिणीगोवेहगोवशा इव | गृष्टिः सकृत्प्रसूता । बष्कयिणी या बष्कयेणे वृद्धवत्सेन दुहते । वेहद्घातिनी । वशा वन्ध्या । कर्मधारयगर्भे द्वन्द्वे ता इव । सर्वा हि गावोवध्याः । यतः किंभूतौ । धेनुर्नवप्रसूता गौश्चासौ धेनुश्च गोधेनुर्भूरेव पाल्यत्वाद्गोधेनुस्तस्यां गोपालौ पालकत्वादल्लवतुल्यौ । गोपालौ हि गाः पालयतो न तु हिंस्त इति ॥ कठश्रोत्रियकालापाध्यायकौत्समवक्तृवत् । कठधूर्ता नु सौराष्ट्रधौलुक्यानाण्यवञ्चयत् ॥ ९१॥ . ९१. सौराष्ट्रो प्राहारिश्चौलुक्याखाण्यवधायदभ्यस्तास्त्रविद्यत्वात्स्वतोटालयत् । यथा कठघूर्तो वञ्चकः कठः कठश्रोत्रियकालापाध्यायकौत्सप्रवक्तृवत् । श्रोत्रियश्छन्दोध्यायी । कालोप: कलापिप्रोक्तप्रन्याध्यायी । प्रवक्तोपाध्यायः । कर्मधारयगर्ने पदत्रयदन्दे । एतान्वञ्चयति ॥ १ सी गर्भ दू. डी गर्मद'. २ बी रे तस्थुः ।. ३ ए सी ण गृद्ध'. ४ सी शा वेध्या । क. ५ वी व गौधे'. ६ डी सदाभ्य'. ७ ए सी यदाम्य'. ८ ए सी स्तात्रवि. ९बी त्रियं का. १२ ए सी लापाः क. ११ ए सी दइय.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy