________________
[है० ३.१.११..] पचमः सर्गः । ४११
कतरकठः कतमौत्सस्ते झातोस्मि किनृप।
इत्याक्षिपन्तावन्योन्यमयुध्येतामुभौ नृपौ ॥ ८८॥ ८८. उभौ नृपावन्योन्यमयुध्येताम् । किंभूतौ सन्तौ । अन्योन्यमाक्षिपन्तौ तर्जयन्तौ । कथमित्याह । हे किंनृप कुत्सितभूप कतरकठः कर्तमौत्सश्च द्वयोः कैठयोर्मध्ये को नाम कठः कठपोक्तवेदा. ध्यायी द्विजभेदो बहूनामुत्सानां मध्ये को नामौत्सश्चोत्सस्यापत्यं मुनिभेदश्च । भीरुत्वादिधमैरस्म्यहं ते त्वया झातो ज्ञायमानोस्मि । "ज्ञानेच्छा" [५.२.९२] इत्यादिनासति कोत एवं त इत्यत्र कर्तरि षष्ठी। "कयोरसदाधारे" [२.२.९१] इत्यत्र कर्दषध्या अनिषिद्धत्वादिति ॥ कतरकठः । कसमौत्सः । इत्यत्र "कतर" [१०९] इत्यादिना कर्मधारयः॥ किनृप । इत्यत्र “ कि क्षेपे" [...] इति कर्मधारयः ।
इभ्यपोटेभ्ययुवतिवत्तस्थुर्दूरतस्तयोः । वृता हयकतिपयैर्गजस्तोकैश्च भूभुजः ॥ ८९ ॥ ८९. हया ये कतिपयास्तैहयकतिपयैरल्पाश्वर्गजस्तोकैश्चाल्पगजैश्च वृता भूमुजस्तदा रणकर्मानुपयोगित्वाचयोर्दूरतस्तस्थुः । इभ्यपोटेभ्ययुवतिवदिभ्या हस्तिन्यः सीजातिभेदः । कामशाने हि पीनस्तनत्वसूक्ष्माक्षत्वादिहस्तिनीधर्मोपेता स्त्री हस्तिनीत्युच्यते । पुरुषवेषधारिण्यः खियः पोटाः । गर्भ एव दास्यं प्राप्ता वोभयव्यञ्जना वा भुजिध्यदास्यो वा । तथेभ्या हस्तिन्यः स्त्रीजातिभेदः करेणव एव वा । १ सी स्मि के नृ. २ ए नृपः ।. १ डी स्तदा ।.
१ ए सी ध्येताः किं. २ बी तमोत्स'. २ ए सी कण्ठयो'. ४ ए सी नासौत्स. ५ सी व म. ६ ए सी डी कयै. ७ ए सी श्वेगज'. ८ ए सी भेदा का.बी भेदाः का. ९एसी आमाकृत्वा. १. बी पेतां नी. ११ सी प्रावाम.