SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराजः ] कादित्वात्समासः । [३. १. ७८. ] । एतेन विनयोक्तिः । अत एव पितृणवर्जिताः । पितॄणामृणमपत्याभावस्तेन वर्जिताः पुत्रवन्त इत्यर्थः । भवति हि पूज्यपूजकानां पुत्रादिसमृद्धिः ॥ होदतं पोतं मातृकृतं पिल्लतमुद्गुणन् । अत्र स्याज्जडजिsोपि वाग्मी विद्यामठे पठन् ॥ ७ ॥ I ७. अत्र पुरे । मंठरछात्राद्यालयः । विद्यायै मठो विद्यामठो धर्माद्यर्थमुपाध्यायच्छात्राणां भोजनाच्छादनादिसामम्योपेत ईश्वरैः कारितो वेश्मविशेषस्तत्र । जातावेकवचनम् । विद्यामठेष्वित्यर्थः । जडा वर्णमात्रोच्चारणेप्यपट्टी जिह्वा यस्य स जडैजिह्वोष्युपाध्यायाध्यापॅननैपुण्येन होतृत्-पोल्लुत्मातृलर्न्-पिल्लुन्-शब्दान दुरुच्चार्यानप्युद्गुणन्नुच्चारयन् सन् वाग्मी पटुवाक् स्यान् । जडर्जिह्वा हि जिह्वापाटवाय विषमवर्णाचार्यन्ते || अमुष्मिन्पुरुषार्थानां त्रिरूपत्वव्यवस्थितिः । ऌकारस्य ऋकारेण संधाविव विराजते ॥ ८ ॥ ८. अमुष्मिन पुरे पुरुषार्थानां धर्मार्थकामानां त्रिरूपत्वव्यवस्थितिः । त्रीणि रूपाणि स्वरूपाणि येषां तेषां भावस्त्रिरूपत्वं तस्य व्यवस्थितिर्व्य. वस्था विराजते । परस्परांनाबधिया स्वस्ववेलायां प्रवर्तनेन धर्मार्थकामानां त्रीणि रूपाणि व्यवस्थितानि शोभन्त इत्यर्थः । यथा । लकारस्य ऋकारेण सह संघौ त्रिरूपत्वव्यवस्थितिः । लृकारः । क्लऋकारः । कृकारः । इत्येवं रूपत्रयव्यवस्था राजते ॥ १ सी पूज.. २ बी मठं छात्रा . ३ सी 'प्यु. ४ सी 'पनै'. ५ बी पुणेन. ६ ए एफ 'तू श ७ सी डी 'न् वा. ८ सी डी 'जिहो हि. ९ सी पुरु. १०णि ये. ११ सी व्यस्थि १२ बी रानबा . १३ सी बाधाया. १४ एफ् 'णि स्वरूपाणि व्यं. १५ सी स्थितिशो.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy