SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ [है० २.४.१४. ] चतुर्थः सर्गः । ३२५ रिर्युधे युद्धार्थ सीमानं स्वदेशमर्यादाभूमिमेत्वागच्छतु । किं कृत्वा । पृतनाश्वमूर्व्यूह्य । किंभूताः । अधिका राजानो यस्यां साधिराज्ञी नाम ग्रामो बहूनि सामानि यस्यां सा बहुसाम्नी नाम पुरी । द्वन्द्वे तयोरधीश्वरास्तदाद्यैर्नृपैः कृत्वा । शतं राजानो यासु सहस्रं राजानो यासु बा ताः । अत एवातिसाम्नः सामोपायमतिक्रान्ता युद्धायैव सदोद्यता इत्यर्थः । अत एव च कृतवर्मणः संनद्धाः ॥ इति सविसृष्टो वनान्तसीमास्वतिपर्वासु वृकोन्वजाः शताज्याम् । द्विपदत्रिपदी ऋचो महर्षीन्पठतो गोपजुषो जगाम पश्यन् ॥ ४१ ॥ ४१. इत्येवंप्रकारेण विसृष्टो राज्ञा मुत्कलितः स दूतो जगाम प्राहारिं प्राप । कीदृक्सन् । अतिपर्वासु मूलराजा गमनानन्देनातिशयितोत्सवासु बनान्तसीमासु काननपर्यन्तसमिभूमिषु वर्तमानान्महर्षीन्मारणेच्छया क्रूरं पश्यन् । वृको नु यथारण्यश्वा शताज्यां शतस्याजानां समाहारे वर्तमाना अजाश्छागीर्मारणेच्छया पश्यति । कीदृशान् । गोपजुषो गोकुलस्थांस्तथा द्वौ पादौ यासां ता द्विपद एवं त्रिपदा ऋचो मत्रविशेषान्पठतः ॥ सहस्रराज्ञीः शतराज्ञः । इत्यत्र “अनो वा" [११] इति वा ङीः ॥ अधिराज्ञी | बहुसाम्नी । इत्यत्र “नाम्नि ” [१२] इति ङीः ॥ कृतवर्मणः । इत्यत्र "नोपान्त्यवतः " [१३] इति न ङीः ॥ सीमानम् । इत्यत्र “मनः " [१४] इति न ङीः || अन्निन्नस्मन्प्रहणान्यर्थवतानर्थकेन च तदन्तविधिं प्रयोजयन्ति । तेन सामातिक्रान्ता अतिसान्न इत्या• दावपि डीप्रतिषेधः स्यात् ॥ १ ए सी डी 'दारुचो . १ ए सी नृपौ कृ. २ ए सी श्रं रा° ३ ए सी इर्थः । ४ए सी डी व रुचो . ५ ए सी 'हश्र° ६ डी अनि नरम .
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy