SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २९६ व्याश्रयमहाकाव्ये [मूलराजः] तथाविधा या अङ्गनास्ताभिनि:पूतोत्पादिता श्रीः शोभा यत्र तत् । तथा तत्क्षणादव प्रादुःषदट्ट व्यवहारार्थ प्रकटीभवदापणमत एव कामासक्तानामासक्तानां च जनानां रक्षार्थ दुःपुप्तसुषुप्तवर्जिता दुष्टस्वापशाभनस्वापाभ्यां रहिताः सर्वथा जागरूका भटा योधा यत्र तन् । गन्धर्वपुर्यपि तात्कालिकानि:पुप्रस्मरत्वादिविशेषणविशिष्टा सती द्रष्टणामाश्चर्याद्धपं करोति. । शार्दूलविक्रीडितं छन्दः ॥ पादुःप्युरप्सरस आजिमहः स विप्यान्सेसिच्यमान इषुभिर्भटपिस्स्यमानः । तत्राभिसेधितुमना अभिसोप्यते यो गङ्गामुसः स इति सैन्यभटाः प्रदध्युः ॥ १६० ।। १६०. सैन्यभटाः प्रर्दध्युरचिन्तयन् । किमित्याह । भटपिस्स्यमानो युद्धार्थ योधैगम्यमानः । अत एवेषुभिः सेसिच्यमानोत्यर्थ व्याप्यमानः । स प्रसिद्ध आजिमहो रणोत्सवो विष्याद्विशेषेण संपद्यताम् । ततश्चाप्सरसः प्रादुःष्युराजिकौतुकदिदृक्षया भटवुदूर्षया च प्रकटीभवन्तु । “विधिनिमन्त्रणा" [५.४.२८. इखादिनात्र प्रार्थने सप्तमी । एतेन मटानां रणविषयोभिलाषातिरेक उक्तः । तया तत्राजिमहेभिसेधितुमना गन्तुकामो यो भटोभिसोप्यते धारातीर्थे स्नास्यति शत्रुभटहिसिष्यते वा स भटो गङ्गामुसूः सुरापगायां स्नातुमिच्छर्देवीभवितुमिच्छतीत्यर्थः । रणे हि मृता: स्वर्गे यान्तीति स्मृतिरिति ॥ विपन्नत् । विकम्भि । इत्यत्र "स्कनः" [५५] इति षः ॥ नि:पमाः । दुःपमाः । सुषमाः । विषमाः । निःपूति । दुःषति । सुपूतयः । ----------... - ...- . -- -- - -- - ----- ---- , ९ श्रीशों. २ डी नां र. ३ ए सी डी मुप्त'. ४ सी यार' ५वी तुकादि. ६ ए विष्षभबी विष्कम्मत् । सीडी विषभूत् ।।
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy