________________
२३६
व्याश्रयमहाकाव्ये
आरात्तीराद्वहिर्नीराच्छीतेभ्य इतरै रवेः । अप्युत्रैस्तप्यमानोस्थादृणाद्वद्धो नु कच्छपः ॥ ४० ॥
४०. कच्छपः कमठो जातावेकवचनम् । शीतेभ्य इतरैरुष्णै रवेरुत्रैः किरणैस्तप्यमानोपि दह्यमानोप्यारातीरान्नद्यादितर्टसमीपे नीराद्वहिश्वास्थात्तस्थौ । उत्प्रेक्ष्यते । ऋणाद्वद्धो नु देयेन हेतुना निगडित इव । ऋणिको हि ऋणादुत्तमर्णेन बद्धो रवेरुष्णैः कैरेस्तप्यमानो नद्यादितटे तिष्ठति बद्धत्वान्न तु जलमध्ये प्रविशति । शरदि हि कच्छपा जातिस्वभावेन नद्यादितटेषु बाहुल्येन विचरन्ति । उक्तं च ।
अपङ्किलतटावट: शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमददभ्रमीनार्भकः । लुठत्कमठसैकतश्चलब कोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥
1
प्रभृत्यैर्थं । वर्षात्ययात्प्रभृति । अब्जोद्गमादारभ्य ॥ अन्यार्थ । अन्यः कणात् । भिम्रो मादात् । ग्रामात्प्राच्याम् । बहिनींरात् । आर्रातीरात् । शीतेभ्य इतरैः ।
I
[ मूलराजः ]
इत्यत्र “प्रभृत्यन्य ०" [ ७५ ] इत्यादिना पञ्चमी ॥ दिशि दृष्टाः शब्दा दिक्शब्द इति देशकालवृत्तिनापि स्यात् । ग्रामात्पश्चिमे देशे । नवम्या अपरेहि ॥ तथा गम्यमानेनापि दिक्शब्देन स्यात् । क्रोशात्सीम । परेणेति गम्यते ॥
१ सी डी टेनिस '. 'ad: 17'. ५ सी डी
ऋणाद्वद्धः । इत्यत्र “ऋणाद्धेतोः” [७६] इति पञ्चमी ॥
सौरभादनुरागेण मुदा बोलिरभ्रमत् । कुमुदस्यान्तिकेनाच दूरे नीपस्य केतकात् ॥ ४१ ॥
२ एफ 'हिश्व स्था. व । शी. ६
रानी".
३ एफ् करैः स्त.
४ एफू
७ सी 'ति गम्य'.