SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ .. . [है ० २.२.५७.] सृतीयः सर्गः। २२३ दुग्धं दभेकरूपत । जशे स्वास्यम्बु मुक्ताभ्यः ॥ धारिणोत्तमणे । शरदे धारयमृणम् । इत्यत्र "रुचिक्लप्यर्थ" [५४] इत्यादिना चतुर्थी ॥ ध्यानैः प्रत्यशृणोन्मैत्री शिखिभ्योनुगृणन्धनः । तस्मै प्रतिगृणन्तस्तेप्याशृण्वन्केकयाथ ताम् ॥ २३ ॥ २३. ध्वा गर्जितैः कृत्वा शिखिभ्यो मयूरेभ्योनुगृणन शिख्युक्तमनुवदत्रिव प्रशंसतो वा शिखिनः प्रोत्साहयन्निव घनो ध्वानरेव मैत्रीमान्तरप्रीति शिखिभ्यः प्रत्यशृणोदिव मेघदर्शनमात्रोद्भूतशिखिकेकानन्तरमेव गर्जनादङ्गीचकारेव । अथ घनस्य मैत्रीप्रतिश्रवणानन्तरं केकया तस्मै घनाय प्रतिगृणन्तो घनोक्तमनुवदन्त इव प्रशंसन्तं वा घनं प्रोत्साहयन्त इव । तेपि शिखिनोपि तां मैत्री तस्मै केकया आशृण्वन्निव गर्जानन्तरमेव केकायनादङ्गीचक्रुरिव । शरद्यपि हि मेघा गर्जन्ति तद्ग श्रवणाच शिखिनः प्रीताः केकायन्ते । अतश्चैवमुत्प्रेक्षा । अत एव शिखिघनानामाख्यातृत्वार्थिते उपपद्यते । उत्प्रेमाद्योतकाश्चेवशब्दा अत्रावसीयन्ते । यो अत्यन्तं निग्धौ वयस्यौ भवतस्तावन्योन्यमुक्तमनुवदन्तौ प्रशंसयोत्साहयन्तौ चावां मिथो वयस्याविति वाचापि मानसी प्रीति प्रतिजानोते ॥ शिखिभ्यो मैत्री प्रत्यशृगोत् । तस्मै तामाशृण्वन् । इत्यत्र "प्रति" [५६] इत्यादिना चतुर्थी । अर्थिनीति किम् । शिखिभ्यो मैत्री प्रत्यशृणोदित्यत्र मैत्र्यां मा भूत् ॥ तस्मै प्रतिगृणन्तः । शिखिम्योनुगृणन् । इत्यत्र "प्रत्यनोः" [५७] इस्यादिना चतुर्थी ॥ आल्यातरीति किम् । तस्मै केकया प्रतिगृणन्त इत्यत्र केकायां मा भूत् ॥ १ सी अथाप व.डी अथापि व. २ सी जर्जाश्राव'. ३ सी डी पद्यते ।। ४. एफ मुक्ताम'. ५ एफ् नाति शि. ६ बी प्रत्येत्या. ७ सी थीं । आख्या. ८ एफ प्र.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy