SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १९४ म्याश्रयमहाकाव्ये [मूलराजः] माचारं स्मृतेर्वान्यायिनो निग्राह्या इत्यागुपदेशरूपाया राजधर्मसंहितायाश्चेत्स्मरसि तत्तदेह ग्राहारौ विषये रुषां कोपानां दयस्व गच्छ कोपं कुर्वित्यर्थः । क्षमा मा क्षान्ति मा दयस्व ॥ तद्वधाय नाहं शक इति राजा मा ज्ञासीदिति तद्वधशक्ती हेतुमाह । त्वमेव तस्येशिष इत्यदिक्षदीशान ईट् त्वां तदुपस्कुरुष्व । बलं धियां चास्य वधे रुजेद्धि राज्यस्य राष्ट्रं द्विडुपेक्षणामः॥९२ ९२. हे गजंस्त्वमेव नान्यस्तस्य ग्राहारेरीशिषे प्रभवसि तं वशीकर्तुं शक्नोपीत्यर्थः । इति हेतोस्त्वामीशानस्तव स्वामी भवन्सन्नीट् शंभुम्त्वामदिक्षद्वाहारिवधायादिशन् । यदि त्वं तद्वधाय शक्तो नाभविष्यस्तदा शंभुस्त्वां तद्वधे नोपादिक्ष्यत् । तस्मात्तद्वधे त्वं शक्त इत्यर्थः । तत्तस्मादस्य प्राहारेर्वधे बलं सैन्यमुपस्कुरुष्व सन्नाहादिसामग्र्या विशिण्ढि । तथास्य मायित्वेन केवलबलेन हन्तुमशक्यत्वाद्धियां चोपस्कुरुष्व मत्रविशेपेण बुद्धीविशिण्ढि विशिष्टबुद्धिप्रयोगं चेह कुर्वित्यर्थः । असौ स्वपापपरिपाकेनैव पक्ष्यते तदस्योपेक्षैव युक्तेति न वाच्यम् । हि यस्माहिडुपेक्षणामः शत्रुपक्षणमेामो रोगो राज्यस्य राष्ट्र देशं च रुजेत्पीडयेत् । अन्यो रोगः किल रोगिणमेव विनाशयति शत्रूपेक्षारोगस्तु राज्यं राष्ट्रं च विनाशयतीति प्राहारिवधोपेक्षां मा कृथा इत्यर्थः ॥ ___ अथ राज्ञस्तद्वधे विशेषेणोत्साहनाय यत्स्वयं सर्वविधेयोपदेष्टनपि युष्मान्प्रति मयैवमुपदिष्टं तत्सर्व निरर्थकमिति दर्शयन्नाह । संतापयन्तं ज्वरयन्तमुवी तमामयं छेत्तुमलं निदेशैः। भुवः किलोज्जासयदद्रिचक्र केनेन्द्र उज्जासयितुं नियुक्तः ॥९३ ॥ १ सी डी कोपं. २ बी मां क्षा'. ३ ए एफ दिक्षत् ।. ४ बी विशण्ढि ।. ५ बी विंशण्दि. ६ एफ वासौ रो.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy