SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ [है० २.२.९. ] द्वितीयः सर्गः । १९३ एवं च दण्डमवेश्यकार्यतयोक्त्वा तत्प्रतिकूलां क्षमां निरस्यंस्तद्धेतुं रुषं वृत्तद्वयेन कार्यामाह । दुर्नीतिभिर्दर्शयमानमेतमद्यापि किं दर्शय से प्रसन्नः । मा मायिनं जात्वभिवादयस्व न्याय्यैर्नयज्ञा ह्यभिवादयन्ते ॥ ९० ॥ ९०. हे राजन्नद्याप्येतन्निमहोचितकाल उपस्थितेप्येतं प्राहारिं त्वं प्रसन्नो नीरोषः सन् किं दर्शयसे । एष त्वां प्रसन्नं पश्यति जानाति तं पश्यन्तं त्वमेवानुकूलाचरणेन किमिति प्रयुद्धे । अस्मिन्प्रसन्नं स्वं मा दर्शयेत्यर्थः । यतः किंभूतमेतम् । दुर्नीतिभिः कर्त्रीभिर्दर्शयमानं दुर्नीतीरेतं पश्यन्तीरेतमेवानुकूलाचरणेन प्रयुञ्जानमैपन्यायाश्रयमित्यर्थः । तथैनं मायिनं छद्मपरं सन्तं जातु कदा चिदपि माभिवादयस्व । एतं त्वां माययाभिवदन्तं प्रणमन्तं त्वमेवानुकूलाचरणेन मा प्रयुङ्क्त । हि यस्माद्धेतोर्नयज्ञा नीतिवेदिनो न्याय्यैर्व्यायिभिः कर्तृभिरभिवादयन्ते न्याय्यानभिवदतः प्रणमतोनुकूलाचरणेन प्रयुञ्जते नान्याय्यानिति || एतं दर्शयसे । दुर्नीतिमिदर्शयमानम् । एतं माभिवादयस्व । म्याय्यैरभिवादयन्ते । इत्यत्र “दृश्यभि” [९] इत्यादिनाणिकर्ता णौ कर्म वा ॥ ननाथ यस्त्वां निशि नाथ नाथं तं नाथसे चेद्यशसामथोच्चैः । स्ववंशधर्म स्मरसि स्मृतेर्वा चेचद्दयस्वेह रुषां क्षमां मा ॥ ९१ ॥ ९१. हे नाथ निशि यस्त्वां ननाथ ग्राहरिप्वादिदैत्यवधं याचितवांस्तं शंभुं नाथं प्रभुं चेन्नाथसे नाथो मे भूयादित्याशंससे । अथाथ बोचैरुनवानां यशसां दैत्यवधोत्थकीर्तीनां चेन्नाथसे यदि यशोर्थयसे चेत्यर्थः । तथा स्ववंशधर्म स्ववंशस्य चौलुक्यान्वयस्य धर्मर्मंपन्याय्युच्छेदनरूप १ एबका २ एफ येनाह । ३ सी र्थः । तथे. ४ ४ एफू ५ बी शोस वेत्य ं. ६ पफू मन्या २५ 'मया'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy