SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ [है. १.४.४७.] प्रथमः सर्गः । ११७ इत्यविषये "सर्वांश" [७. ३. ११७ ] इत्यादिनाट् । अह्लादेशश्च । ततो "द्विगोरनपत्ये" [ ६. १. २४ ] इत्यादिनाणो लुपि चतुरहस्तस्मिंश्चतुरह्नि । एवं व्यहे व्यहनि वा स्तोककालीनेपीत्यर्थः । आजे: प्रयोगः पुंस्यपि दृश्यते । तथा च माघे । वाहनाजनि मानासे साराजावनमा ततः । [१९.३३] इति ॥ असायापि सायाहीवैषोस्वाप्सीन जातु चित् । अदीप्यत प्रतापेन सायाहनि हुताशवत् ॥ १९३ ॥ १९३. यथा सायाहि संध्याकाले निषिद्धत्वान्न कोपि स्वपिति तथैष राजासायाह्नप्यसंध्यायामपि स्वापाहे कालेपीत्यर्थः । जातु चित्कदाचिदपि नास्वाप्सीत् । सदापि प्रजापालने जागरूकोभूदित्यर्थः । तां यथा सायाहनि हुताशोग्निः प्रतापेन दीप्त्या कृत्वा दीप्यते तथैष प्रतापेन तेजसा कृत्वादीप्यत ॥ पैत्रे व्यहि दैवतेपि व्यह्ने ब्राह्मे व्यहन्यपि । गुणानां वर्ण्यमानानां कोप्यन्तं नास्य लब्धवान् ॥१९४॥ १९४. सुगमः । किं तु पितॄणामयं पैत्रस्तस्मिन् । विगतमहो व्यहस्तस्मिन् व्यहि गतदिने । दैवते दैवसंबन्धिनि । ब्रोझे विधातृसंबन्धिनि । पैत्रव्यहादि प्रमाणं चेदम् । १ एफ त् ॥ १९३ ॥ सं. २ बी पैन्ये व्य. १ सी डी थापि मा. २ एफ °सेसरा . ३ ए बी डी एफ °मानतः. ४ एफ स्वापेहें. ५ एफ सीदित्यर्थः । स. ६५ °था सा. ७ सी एफ 'प्यते ॥,पै. ८ ए ते देव. ९डी बाहये वि.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy