SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રકરણ સાતમો અધ્યાય ३८. छ. () अथ स्वयमेवैतत् सूत्रं भावयति सुगतिविशिष्टदेवस्थानम् ॥७॥४५०॥ इति । सुगतिः किमुच्यते इत्याह- विशिष्टदेवस्थानं सौधर्मादिकल्पलक्षणम् ।।७।। હવે ગ્રંથકાર સ્વયં જ આ સૂત્રને વિચારે છે :સૌધર્મ દેવલોક વગેરે વિશિષ્ટ દેવસ્થાન સુગતિ છે. (૭) तत्रोत्तमा रूपसंपत, सस्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धेन्द्रियावधित्वम्, प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवहः, मनोहराण्युद्यानानि, रम्या जलाशयाः, कान्ता अप्सरसः, अतिनिपुणाः किङ्कराः, प्रगल्भो नाट्यविधिः, चतुरोदारा भोगाः, सदा चित्ताह्लादः, अनेकसुखहेतुत्वम्, कुशलानुबन्धः, महाकल्याणपूजाकरणम्, तीर्थकरसेवा, सद्धर्मश्रुतौ रतिः, सदा सुखित्वम् ॥८॥४५१॥ इति । तत्र देवस्थाने उत्तमा प्रकृष्टा रूपसंपत् शरीरसंस्थानलक्षणा १, सत्यः सुन्दरा याः स्थिति - प्रभाव - सुख - द्युति - लेश्यास्ताभिर्योगः समागमः, तत्र स्थितिः पल्योपमसागरोपमप्रमाणायुष्कलक्षणा, प्रभावो निग्रहा - ऽनुग्रहसामर्थ्यम्, सुखं चित्तसमाधिलक्षणम्, युतिः शरीरा-ऽऽभरणादिप्रभा, लेश्या तेजोलेश्यादिका इति २, विशुद्धानि स्वविषयाविपर्यस्तज्ञानजननेन निर्मलानीन्द्रियाणि अवधिश्च यस्य स तथा, तद्भावस्तत्त्वम् ३, प्रकृष्टानि प्रकर्षवन्ति भोगसाधनानि भोगोपकरणानि ४, तान्येव दर्शयति- दिव्यो निजप्रभामण्डलविडम्बिताशेषतेजस्विचक्रो विमाननिवहः विमानसंघातः ५, मनोहराणि मनःप्रमोदप्रदानि अशोक-चम्पक-पुन्नाग-नागप्रभृतिवनस्पतिसमाकुलानि उद्यानानि वनानि ६, रम्या रन्तुं योग्या जलाशयाः वापी - ह्रद - सरोवरलक्षणाः ७, कान्ताः कान्तिभाजः अप्सरसो देव्यः८, अतिनिपुणाः परिशुद्धविनयविधिविधायिनः किङ्कराः प्रतीतरूपा एव ९, प्रगल्भः प्रौढो नाट्यविधिः तीर्थकरादिचरितप्रतिबद्धाभिनयलक्षणः १०, चतुरोदाराः चतुराः झटित्येवेन्द्रियचित्ताक्षेपदक्षा उदाराश्च उत्तमाः भोगाः शब्दादयः श्रोत्रादीन्द्रियविषयाः ११, सदा सततं चित्ताह्लादो मनःप्रसादरूपः १२, अनेकेषां स्वव्यतिरिक्तानां देवादीनां तत्तन्नानाविधसमुचिताचारसमाचरणचातुर्यगुणेन सुखहेतुत्वं संतोषनिमित्तभावः १३, कुशलः ૩૩૮
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy