SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રકરણ પહેલો અધ્યાય वचनाद् यदनुष्ठानमविरुद्धाद् यथोदितम् । मैत्र्यादिभावसंयुक्तं तद् धर्म इति कीर्त्यते ॥३॥ इति । उच्यते इति वचनम् आगमः, तस्मात्, वचनमनुसृत्येत्यर्थः, यदित्यद्याप्यनिरूपितविशेषमनुष्ठानम् इहलोक-परलोकावपेक्ष्य हेयोपादेययोरर्थयोरिहैव शास्त्रे वक्ष्यमाणलक्षणयोर्हानोपादानलक्षणा प्रवृत्तिः तद् धर्म इति कीर्त्यते इत्युत्तरेण योगः, कीदृशाद्वचनादित्याह- अविरुद्धात् निर्देक्ष्यमाणलक्षणेषु कष-च्छेद-तापेषु अविघटमानात्, तच्चाविरुद्धं वचनं जिनप्रणीतमेव, निमित्तशुद्धेः। वचनस्य हि वक्ता निमित्तमन्तरङ्गम्, तस्य च राग-द्वेष-मोहपारतन्त्र्यमशुद्धिः, तेभ्यो वितथवचनप्रवृत्तेः, न चैषा अशुद्धिर्जिने भगवति, जिनत्वविरोधात्, जयति राग-द्वेष-मोहस्वरूपानन्तरङ्गान् रिपूनिति जिन इति शब्दार्थान पपत्तेः, तपन-दहनादिशब्द वदन्वर्थ तया चास्याभ्युपगमात्। निमित्तशुद्ध्यभावान्नाजिनप्रणीतमविरुद्ध वचनम्, यतः कारणस्वरूपानुविधायि कार्यम्, तन्न दुष्टकारणारब्धं कार्यमदुष्टं भवितुमर्हति, निम्बबीजादिवेक्षुयष्टिरिति, अन्यथा कारणव्यवस्थोपरमप्रसङ्गात्। यच्च यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण क्वचित् किञ्चिदविरूद्धमपि वचनमुपलभ्यते मार्गानुसारिबुद्धौ वा प्राणिनि क्वचित् तदपि जिनप्रणीतमेव, तन्मूलत्वात् तस्य। न च वक्तव्यं 'तर्हि अपौधेयं वचनमविरुद्ध भविष्यति', कुतः? यतस्तस्यापौरपेयत्वे स्वरूपलाभस्याप्यभावः, तथाहि- उक्तिर्वचनम्, पुरुषव्यापारानुगतं रूपमस्य, पुम्बक्रियायास्ताल्वोष्टादिव्यापाररूपाया अभावे कथं वचनं भवितुमर्हति? किंच, एतदपौरुषेयं न क्वचिद् ध्वनदुपलभ्यते, उपलम्भेऽप्यदृष्टस्य पिशाचादेर्वक्तुराशङ्काऽनिवृत्तेः – ‘मा न तेन तद् भाषितं स्यात' ततः कथं तस्मादपि मनस्विनां सुनिश्चिता प्रवृत्तिः प्रसूयत इति? कीदृशमनुष्ठानं धर्म इत्याह- यथोदितं यथा येन प्रकारे ण कालाधाराधनानुसाररूपेणोदितं = प्रतिपादितं तत्रैवाविरुद्ध वचने, अन्यथा प्रवृत्तौ तु तवेषित्वमेवापद्यते, न तु धर्मः, यथोक्तम् तत्कारी स्यात् स नियमात् तद्द्वेषी चेति यो जडः। आगमार्थे तमुल्लङ्घ्य तत एव प्रवर्तते ।।१।। (योगबिन्दौ २४०) इति । पुनरपि कीदृशमित्याह- मैत्र्यादिभावसंयुक्तम्, मैत्र्यादयो मैत्री-प्रमोद-करुणामाध्यस्थ्यलक्षणा ये भावा अन्तःकरणपरिणामाः, तत्पूर्वकाश्च बाह्यचेष्टाविशेषाः सत्त्वगुणाधिक-क्लिश्यमाना-ऽविनेयेषु, तैः संयुक्तं = संमिलितं, मैत्र्यादिभावानां निःश्रेयसा
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy