SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રકરણ ત્રીજો અધ્યાય ननु कथं परं चारित्रकारणमसावित्याशङ्कयाह पदंपदेन मेधावी, यथारोहति पर्वतम् । सम्यक् तथैव नियमाद्धीरश्चारित्रपर्वतम् ॥५॥ इह पदं पदिकोच्यते, ततः पदेन पदेन यदारोहणं तन्निपातनात् पदंपदेनेत्युच्यते, ततः पदंपदेन मेधावी बुद्धिमान् यथेति दृष्टान्तार्थः आरोहति आक्रामति पर्वतम् उज्जयन्तादिकं सम्यक् हस्त-पादादिशरीरावयवभङ्गाभावेन तथैव तेनैव प्रकारेण नियमाद् अवश्यन्तया धीरो निष्कलङ्कानुपालित-श्रमणोपासकसमाचारः चारित्रपर्वतं सर्वविरतिमहाशैलमिति ।।५।। આ વિશેષ ગૃહસ્થ ધર્મ ચારિત્રનું સફલ કારણ કેવી રીતે છે એવી આશંકા કરીને તેનો ઉત્તર આપતા ગ્રંથકાર કહે છે : જેવી રીતે બુદ્ધિશાળી માનવ એક એક પગથિયું ચઢતાં ગિરનાર વગેરે પર્વત ઉપર સારી રીતે ચડી જાય છે, તે જ રીતે ધીર માનવ ચારિત્રરૂપી મહાપર્વત ઉપર અવશ્ય ચડે છે. સારી રીતે ચડી જાય છે એટલે હાથ - પગ વગેરે શરીરનાં અંગો ભાંગે નહિ તે રીતે ચડી જાય છે. ઘર એટલે જેણે નિરતિચારપણે શ્રાવકના આચારોનું પાલન Bथु छ मेवो मानव. (५) ननु एतदपि कथमित्थमित्याह स्तोकान् गुणान् समाराध्य, बहूनामपि जायते। यस्मादाराधनायोग्यस्तस्मादादावयं मतः ॥६॥ इति ॥ स्तोकान् तुच्छान् गुणान् श्रमणोपासकावस्थोचितान् समाराध्य पालयित्वा बहूनां सुश्रमणोचितगुणानां 'स्तोकानामाराधनायोग्यो जात एव' इति अपिशब्दार्थः, जायते भवति यस्मात् कारणादाराधनायोग्यः परिपालनोचितः अविकलाल्पगुणाराधनाबलप्रलीनबहुगुणलाभबाधककर्मकलङ्कत्वेन तद्गुणलाभसामर्थ्यभावात् तस्मात् कारणादादौ प्रथमत एव अयम् अनन्तरप्रोक्तो गृहस्थधर्मो मतः सुधियां सम्मतः इति। पुरुषविशेषापेक्षोऽयं न्यायः, अन्यथा तथाविधाध्यवसायसामर्थ्यात्तदा एवाबलीभूतचारित्रमोहानां स्थूलभद्रादीनामेतक्रममन्तरेणापि परिशुद्धसर्वविरतिलाभस्य शास्त्रेषु श्रूयमाणत्वात् ।।६।। ૨૦૯
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy