________________
॥ अहम् ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरपादपद्मभ्यो नमः ।
सुविहितकोटिकोटीरचिरन्तनाचार्यप्रणीतं
| श्रीसिद्धप्राभृतं सटीकम् ।
सकलभुवनेशभूतान्निखिलातिशयान् जिनान् गुरून् स्तुत्वा । सिद्धप्राभृतटीका, 'तदर्थिहितकाम्यया क्रियते ॥१॥
इह परमपुरुषाभिव्यक्ताप्तागमप्रतिबद्धसिद्धवक्तव्यताभिधित्सया प्रवृत्त्यङ्गत्वान्मङ्गलादिचतुष्टयप्रतिपादकमिदं गाथात्रयमाह, तत्राप्याद्यगाथया मङ्गलं गुरुपर्वक्रमसम्बन्धं चाहतिहुयणपणए तिहुयण-गुणाहिए तिहुयणातिसयणाणे[ णी]। उसभातिवीरचरिमे, तमरयरहिए पणमिऊणं ॥१॥ सुणिउणआगमणिहसे, सुणिउणपरमत्थसुत्तगंथधरे। चोद्दसपुव्विगमाई, कमेण सव्वे पणमिऊणं ॥२॥ णिक्खेवणिरुत्तीहि य, छहिँ अट्ठहिँ चाणुओगदारेहिं । "खेत्तातिमग्गणेसु य, सिद्धाणं वणिया भेया ॥३॥
"तिहुयणपणए" इत्यादि । 'त्रिभुवनप्रणतान्' इत्यनेनाचिन्त्यफलसम्पादकत्वेन पूजार्हत्वादुत्तमोत्तमत्वमाह । अथ कस्मात्त(त्तान्) एव नत्वा ? इत्याह-'त्रिभुवनगुणाधिका' यत इति, अनेनापि गुणद्वारकं पूजार्हत्वमुत्तमोत्तमत्वं च दर्शयति । कुतः ? इत्याह-'त्रिभुवनातिशयज्ञानिनः' त्रिभुवनेऽतिशया ज्ञानं च येषां ते त्रिभुवनातिशयज्ञानिन इति, अनेनापि अतिशयसन्दोहत्वात्परमदेवतात्वं ख्याप्यते । क एते एवंविधाः ? इत्याह-'उसभातिवीरचरिमे'
१. 'तदर्थ'-इति क-ग-घ-ङ पुस्तके षु । २. 'इसय'-ङ पुस्तके । ३. 'उसभादि'-ङ पुस्तके । ४. 'खेत्ताइमग्गणासु'-ङ पुस्तके ।