________________
४
[श्रीस्याद्यन्तरत्नाकरे मङ्गलाचरणं प्रस्तुतग्रन्थावश्यकता च]
[शार्दूलविक्रीडितवृत्तम् ] न्यायव्याकराणागमेषु ललिते काव्ये तथा छन्दसि, साहित्यप्रभृतौ प्रबन्धगगने यद्धीकरा विस्तृताः।
येनाकारि च भूरिशास्त्ररचना विद्वजनानां मुदे, वन्दे तं प्रगुणालयं गुरुवरं लावण्यसूरीश्वरम् ॥ १२ ॥
[शिखरिणीवृत्तम् ] - प्रसादाद्यस्याऽहं जिनचरितदीक्षामधिगतो, जडोऽप्यात्मा मेऽयं विमलतरशिक्षावितरणैः ।
इयभूमि नीतोऽतुलकरुणया येन गुरुणा, स सूरिविण्यो मम मनसि नित्यं निवसतु ॥१३॥
[शार्दूलविक्रीडितवृत्तम् ] तस्य व्याकरणे गतस्य पदवीं वाचस्पतीति स्फुटां, शास्त्रालौ च विशारदः कविकुले रत्नेति रम्यं पदम् ।
श्रीलावण्यमुनीश्वरस्य सुगुरोः सेवाप्तविद्यालवो, बालार्थ विदधामि दक्षविजयः स्याद्यन्तरत्नाकरम् ॥ १४ ॥
___ समासादिते हि तीर्थकरदेवोपवर्णितदौर्लभ्ये मनुष्यत्वे फलवता भाव्यम् । फलं च मानवजन्मनो मुक्तेरधिगमः । स च हेयेषु निवृत्त्या उपादेयेषु प्रवृत्त्या। निरुक्ते निवृत्तिप्रवृत्ती तु तदुपदेशाधीने । उपदेशश्च वचनप्रयोगाधीनः । वचनप्रयोगश्च पदाधीनः "न केवला प्रकृतिः प्रयोक्तन्या, नापि केवलः प्रत्ययः" इति वचनात्। पदं च विभक्त्यन्तम् । विभक्तिस्तु द्विधा, स्यादिरूपा त्यादिरूपा चेति । तत्र आद्या नाम्न आयाति, इतरा. . धातोः । तत्र नाम्नो या विभक्तिरायाति तदन्तस्य