SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ५५४ हैमलघुनूतनप्रक्रिया ॥अथाऽलुप्ममासप्रक्रिया॥ न नाम्येकस्वरात् खित्युत्तरपदेऽमः ।३।२।९।। नाम्यन्तादेकस्वरात्पूर्वपदात्परस्याऽमः खित्प्रत्ययान्ते उत्तरपदे परे लुप् न भवति । स्त्रियं स्त्री वाऽऽत्मानं मन्यते, स्त्रींमन्यः, स्त्रियमन्यः। असत्वे उसे।३।२।१०॥ असत्त्वे विहितस्य ङसेरुत्तरपदे लुप् न भवति । स्तोकान्मुक्तः। दूरादोगतः ॥ ओजोऽजःसहोऽम्भस्तमस्तपसष्टः ३२॥१२॥ एभ्यः परस्याः टाविभक्तेरुत्तरपदे परे लुप् न भवति । ओजसाकृतमित्यादि । समासफलमैकपद्यम् , ततश्च नामधातुतद्धितादिप्रत्ययादि। परात्मभ्यां डेः ।३।२।१७॥ परात्मशब्दाभ्यां परस्या के विभक्तेरुत्तरपदे परे लुप् न भवति संज्ञायाम् । पैरस्मैपदं परस्मैभाषा, आत्मनेपदम् , आत्मनेभाषा । तत्पुरुषे कृति ।३।२।२०॥ अव्यञ्जनात्परस्याः ८-९-वाऽम्शसोतोय , पक्षे समानादिति लुक् । तौ मुम इत्यनुस्वारो मकारो वा । कर्तु: खर, दिवादेः श्यः, उस्युक्तसमासः, लुगस्य । १-क्तेनाऽसत्त्व इति समासः, स्तोकाल्पे ते पञ्चमी, तृतीयस्य-पञ्चमे, दूरादित्यसत्त्वारादिति सिः । २.-करणे तृतीया, कारकं कृतेति समासः। ३-तादर्थे चतुर्थी, हितादित्वात्समासः । .
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy