SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया ५५३ शुक्लं शुक्ले वा। शुक्लं च शुक्लश्च शुक्ला च शुक्लं शुक्लानि वा । अन्येनेति किम् ? शुक्लं च शुक्लं च शुक्ले, शुक्लं च शुक्लं च शुक्लं च शुक्लानि । हिमं च हिमानी च हिमहिमान्यौ । अत्रार्थभेदोऽपीति न भवति । पिता मात्रा वा ।३।१११२२॥ मातशब्देन सहोक्तौ पितृशब्द एकः शिष्यते वा । पिता च माता च पितरौ । ___ मातरपितरं वा ।३।२।४७॥ मातृपितृशब्दयोः पूर्वोचरपदयोर्द्वन्द्वे मातरपितरेति ऋकारस्य अर इति वा निपात्यते । मातर-पितरौ । ... आ द्वन्द्वे ॥२॥३९॥ विद्यायोनिसम्बन्धनिमित्ते सति प्रवर्तमानानामृकारान्तानां शब्दानां द्वन्द्वे सत्युत्तरपदे परे पूर्वपदस्याऽऽकासेऽन्तादेशो भवति । मातापितरौ । नान्दाथातरौ, होतापोतारौ। पुत्रे ।३।२।४०॥ पुत्रशब्दे उत्तरपदे परे द्वन्द्वे विद्यायोनिसम्बन्धे-निमित्ते सति प्रवर्त्तमानानामृकारान्तानामाकारोऽन्तादेशो भवति । मातापुत्रौ, पितापुत्रौ । ॥ इत्येकशेषप्रक्रिया ॥ १-स्यादावसंख्येय इत्येकशेषः । २-अल्पस्वरं प्राक् । ३-अर्च्य प्राक् । ४-धर्मार्थादिः, याताननान्दरौ । ५-६-७ अर्घ्य प्राक् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy