SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया लिङ्गवचनानीति यवाग्मयमित्यपि । एक्मन्यत्राऽपि यथादर्शनं बोध्यम् । ____ अस्मिन् ।७।३।२॥ प्रकृतेऽर्थे वर्तमानानाम्नोऽस्मिमिति सप्तम्यर्थे मयट् प्रत्ययो भवति । प्रकृतमन्नमस्मिन्निति अन्नमयं भोजनम् । एवमपूपमयम् । वटकमयी यात्रा।.. निन्द्ये पाशप ७३४॥ निन्द्येऽर्थे वर्तमानानाम्नः स्वार्थे पाशप् प्रत्ययो भवति । कुत्सितः साधुः साधुपाशः । पित्त्वात् पुंवद्भावः । साधुपाशा । वैयाकरणपाशः । छान्दसपाशः॥ प्रकृष्टे तमप् ।७३।५॥ प्रकर्षवत्यर्थे वर्तमानानाम्नः स्तमप् प्रत्ययो भवति । प्रकर्षोऽतिशयः। स च गुणक्रिययोरेव म जाति-द्रव्ययोः । सर्वे इमे शुक्लाः अयमेषां प्रकृष्टः शुक्ला शुक्लतमः । साधकतमः, महत्तमः । शुक्लतमा शाठी ॥ । द्वयोर्विभज्ये च तरप् ७।३।६॥ द्वयोस्तद्गुणयोरर्थयोर्मध्ये यः प्रकृष्टस्तस्मिन् विभक्तव्ये च प्रकृष्टेऽर्थे वर्तमानानाम्नस्तरप् प्रत्ययो भवति । तमपोऽपवादः । द्वाविमौ पट्ट अयमनयोः प्रकृष्टः पटुः पटुतः। एवं सुकुमारतर, पाचकतरः। गोतरो यः शकटं वहति सीरं च । गोतरा.या समांसमीना स्त्रीवत्सा च । दन्तौष्ठस्य दन्ताः स्निग्धतरा, पाणिपादस्य पाणी सुकुमारतरौ । सांकाश्यकेभ्यो माथुरा १-पित्त्वात्पुंवत् ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy