________________
२७२
हैमनूतनलघुप्रक्रिया क्तयोरनुपसर्गस्य ।४।११९२॥ अनुपसर्गस्य प्यायः क्तयोः परयोः पी इत्ययमादेशो भवति । पीनम् , पीनैवेत् । अनुपसर्गस्येति किम् ? प्रप्योनो मेघः ॥
प्राद दागस्त आरम्भे क्ते ।४।४७॥ आरम्भे - आदिकर्मणि वर्तमानस्य प्रशब्दादुत्तरस्य दागः स्थाने क्तप्रत्यये परे त्तादेशो वा भवति । प्रत्तः, प्रदातुमारब्धवानित्यर्थः । पक्षे ददादेशो वक्ष्यमाणः । प्रदत्तः ॥
निविस्वन्ववात् ।४।४।८॥ एभ्यः परस्य दागः क्ते परे त्तादेशो वा भवति । ... दस्ति ।३।२।८८ ॥ दा इत्येतस्य यस्तकारादिरादेशः तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घोऽन्तादेशो भवति । नीत्तम् , वोत्तम् , सूत्तम् , अनूत्तम् , अवत्तम् । पक्षे-निदत्तमित्यादि ॥
स्वरादुपसर्गादस्तिकित्यधः ।४।४।९॥ स्वरान्तादुपसर्गात्परस्य धार्जितस्य दासंज्ञकस्य तकारादौ किति प्रत्यये परे तादेशो भवति । प्रत्तः ॥
दत् ।४।४।१०॥ धावर्जितस्य दासंज्ञकस्य तादौ किति
१०-सूयत्यादीति नः । ११-य्वोः प्वयिति यलोपः। १२-धुटो धुटीति तलोषो वा ।