SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया mmmmmmmmmmmmmmmmmmmmmmmmm सिद्धिः स्याद्वादात् ।१।१।२॥ स्याद्वादात्-अनेकान्तवादात् प्रकृतानां शब्दानां सिद्धिःज्ञप्तिनिष्पत्तिश्च ज्ञातव्या । वादात्-शुद्धशब्दप्रयोगात्, सिद्धिः सम्यग्ज्ञानं मोक्षश्च स्यादिति वाऽर्थः ॥ २ ॥ ॥ अथ संज्ञाप्रकरणम् ॥ औदन्ताः स्वराः।१।१४। वर्णमातृकापाठे औकारान्ता वर्णाः स्वरसंज्ञका भवन्ति । ते यथा-अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ इति । अत्र ॥ औदन्ता ॥ इति बहुवचनात् प्लुतानामपि ग्रहणं बोध्यम् । एवमग्रेऽपि ॥ ३ ॥ एकद्वित्रिमात्रा हुस्वदीर्घप्लुताः ।१।११५॥ मात्रा उच्चारणकालविशेषः। निमेषमात्र इति बहवः । एकद्विज्युच्चारणमात्रा औदन्ता वर्णा यथासंख्यं हूस्वदीर्घप्लुतसंज्ञका १-स्यादित्यनेकान्तद्योतकमव्ययम् । स्याद्वादश्च नित्यानित्याद्यनन्तधर्मात्मकवस्तुस्वीकारः ।। २-ज्ञप्तिः सिद्धस्य प्रकाशनम् , निष्पत्तिरसत उत्पत्तिः । नित्यैकान्तवादे शब्दस्योत्पत्तिर्न घटते । अनित्यैकान्तवादे च शब्दस्य पूर्वमसत्त्वाज शतिर्न घटते इति द्रष्टव्यम् । वि०वि० कारिका "शब्दानां ज्ञप्तिनिष्पत्ती स्यातां स्याद्वाददर्शने । शब्दे ह्येकान्ततो नित्येऽनित्ये वा तद् द्वयं कुतः ? ॥१॥ इति । ३-वि० वि० कारिका-“औकारान्ता अकादाद्याः स्वरा वर्णाअतुर्दश” इति ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy